________________
१००
काव्यमाला।
तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्ध विगृह्णाति तुलां तेनाधिरोहति ॥ तत्पदव्यां पदं धत्ते तस्य कक्षा विगाहते । बन्धुश्चौरः सुहृद्वादी कल्पः प्रख्यः समप्रभः ॥
देशीयदेश्यहृद्यामसोदराद्या इवार्थकाः ।' 'व वा यथा तथैवैवम्' इत्यमरे वशब्दोऽपीवार्थः । 'शात्रवं व पपुर्यशः' इति कालिदासः । 'कादम्बखण्डितदलानि व पङ्कजानि' इति पूर्वप्रयोगः । अत्र निपातसंज्ञा इवादयः । वदिति इवार्थे तुल्यार्थे च वतिप्रत्ययः । कल्पदेशीयदेश्यास्तद्धितप्रत्ययाः । ते च यद्यपि 'ईषदसमाप्तौ' इत्यादिसूत्रेण विहितास्तथापि तुल्यार्था एव । ईषदसमाप्तेरपि सादृश्ये पर्यवसानात् । तदुक्तं कैयटेन—'गुड इव ईषदर्थसमाप्ता द्राक्षा गुडकल्पाः, यद्यप्यत्रोपमानग्रहणं नोपात्तं तथापि सामर्थ्यादुपमानोपमेयभावः' इति ।
'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च स्युरुत्तरपदे त्वमी ॥
निभसंकाशनीकाशप्रतीकाशोपमादयः ।' इत्यमरः । तत्र प्रत्ययानामुपमानोत्तरमेव प्रयोगः । तस्यैव तत्प्रकृति
पेणैवोपादानात् । प्रत्यया इति । स्वातन्त्र्येण सदृशादिशब्दवत् प्रयोगवारणार्थम् । तेषां सादृश्यार्थत्वाभावमाशङ्कते-ते च यद्यपीति । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति सूत्रेणेत्यर्थः । सामर्थ्यादिति । ईषदसमाप्तत्वेन किंचिद्वैलक्षण्यलाभात्तेन चात्यन्तसाम्यस्य लाभ इति कैयटस्याशयः । सादृश्यार्थकत्वाभावशङ्कां मध्य एव समाधाय प्रत्ययत्वकथनप्रयोजनमाह-तत्रेति । प्रत्ययानामिति । वतिप्रत्ययकल्पबादिप्रत्ययानामित्यर्थः । यद्यपि वतिप्रत्ययोऽपि तद्धितसंज्ञ एव तथापि तस्याव्ययसंज्ञाया अपि सत्त्वात्कल्पादिभ्यो बहिष्कृत्य इवादीनां कल्पबादीनां च मध्ये प्रदानात् । इवादिवदव्ययत्वं कल्पबादिवत्तद्धितत्वं चायास्यतीति लाघवार्थ पृथगभिधानम् । समादि. पदानां 'चन्द्रेण समम्' इति वाक्येन, 'चन्द्रसमम्' इति समासेन च, प्रयोगानिभा.