________________
अनुपलवसाम्राज्ये विसजागपरिक्षये ॥ श्रात्मा शुद्धस्वभावानां जननाय प्रवर्त्तते ॥ ८२ ॥ चित्तमेव हि संसारो रागादि| क्लेशवासितम् ॥ तदेव तैर्विनिर्मुक्तं जवांत इति कथ्यते ॥ ८३ ॥ यश्च चित्तक्षणः विष्टो नासावात्मा विरोधतः ॥ अनन्य विकृतं रूपमित्यन्वर्थे ह्यदः पदम् ॥ ८४ ॥ श्रुतवानुपयोगश्चेत्येतन्मिथ्या यथा वचः ॥ तथात्मा शुद्धरूपश्चेत्येवं शब्दनया जगुः ॥ ८५ ॥ शुद्धपर्यायरूपस्तदात्मा शुद्धः स्वभावकृत् ॥ प्रथमाप्रथमत्वादिनेदोऽप्येवं हि तात्त्विकः ॥ ८६ ॥ ये तु दिक्पटदेशीयाः शुद्धव्यतयात्मनः ॥ शुद्धस्वभावकर्तृत्वं जगुस्तेऽपूर्वबुद्धयः ॥ ८१ ॥ अव्यास्तिकस्य प्रकृतिः शुद्धा संग्रहगोचरा ॥ येनोक्ता संमतौ श्रीमत्सिद्धसेन दिवाकरैः ॥ ८८ ॥ तन्मते च न कर्तृत्वं जावानां सर्वदान्वयात् ॥ कूटस्थः केवलं | तिष्ठत्यात्मा साक्षित्वमाश्रितः ॥ ८९ ॥ कर्त्तुं व्याप्रियते नायमुदासीन इव स्थितः ॥ श्राकाशमिव पंकेन लिप्यते न च | कर्मणा ॥ ९० ॥ स्वरूपं तु न कर्त्तव्यं ज्ञातव्यं केवलं स्वतः ॥ दीपेन दीप्यते ज्योतिर्न त्वपूर्व विधीयते ॥ १ ॥ श्रन्यथा | प्रागनात्मा स्यात्स्वरूपाननुवृत्तितः ॥ न च हेतुसहस्रेणाप्यात्मता स्यादनात्मनः ॥ ९२ ॥ नये तेनेड् नो कर्त्ता किं त्वात्मा शुद्धभावनृत् ॥ उपचारात्तु लोकेषु तत्कर्तृत्वमपीष्यताम् ॥ ९३ ॥ उत्पत्तिमात्मधर्माणां विशेषग्राहिणो जगुः ॥ अव्यक्तिरावृतेस्तेषां नाजावादिति का प्रमा ॥ ९४ ॥ सत्त्वं च परसंताने नोपयुक्तं कथंचन ॥ संतानिनामनित्यत्वात्संतानोऽपि न च ध्रुवः ॥ ९५ ॥ व्योमाप्युत्पत्तिमत्तत्तदवगाहात्मना ततः ॥ नित्यता नात्मधर्माणां तद्दृष्टांतबलादपि ॥ ए६ ॥ रुजुसूत्रनयस्तत्र कर्तृतां तस्य मन्यते ॥ स्वयं परिणमत्यात्मा यं यं जावं यदा यदा ॥ 9 ॥ कर्तुत्वं परजावानामसौ, नान्युपगच्छति ॥ क्रियाषयं हि नैकस्य प्रव्यस्यानिमतं जिनैः ॥ ए८ ॥ नृतिर्या हि क्रिया सैव स्यादेकद्रव्यसंततौ ॥ न साजात्यं विना च