SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ २३ ॥ मध्याह्ने मृगतृष्णायां पयःपूरो यथेक्ष्यते ॥ तथा संयोगजः सर्गो विवेकाख्यातिविप्लवे ॥ २९ ॥ गंधर्वनगरादीनामंबरे नंबरो यथा ॥ तथा संयोगजः सर्वो विलासो वितथाकृतिः ॥ ३० ॥ इति शुनयायत्तमेकत्वं प्राप्तमात्मनि ॥ श्रंशादिकल्पनाप्यस्य नेष्टा यत्पूर्णवादिनः ॥ ३१ ॥ एक श्रात्मेति सूत्रस्याप्ययमेवाशयो मतः ॥ प्रत्यग्ज्योतिषमात्मानमादुः शुधनयाः खलु ॥ ३२ ॥ प्रपंचसंचय क्लिष्टान्मायारूपाद्विनेमि ते ॥ प्रसीद जगवन्नात्मन् शुद्धरूपं प्रकाशय ॥ ३३ ॥ देहेन सममेकत्वं मन्यते व्यवहारवित् ॥ कथंचिन्मूर्ततापत्तेर्वेदनादिसमुङ्गवात् ॥ ३४ ॥ तन्निश्चयो न सहते यदमूर्त्तो न मूर्त्तताम् ॥ अंशेनाप्यवगा - देत पावकः शीततामिव ॥ ३५ ॥ उष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति नमः ॥ तथा मूतीगसंबंधादात्मा मूर्त्त इति | मः ॥ ३६ ॥ न रूपं न रसो गंधो न न स्पर्शो न चाकृतिः ॥ यस्य धर्मो न शब्दो वा तस्य का नाम मूर्त्तता ॥ ३७ ॥ दृशादृश्यं हृदाग्राह्यं वाचामपि न गोचरः ॥ स्वप्रकाशं हि यद्रूपं तस्य का नाम मूर्त्तता ॥ ३८ ॥ आत्मा सत्यचिदानंदः सूक्ष्मात्सूक्ष्मः परात्परः ॥ स्पृशत्यपि न मूर्त्तत्वं तथा चोक्तं परैरपि ॥ ३९ ॥ इंद्रियाणि पराण्यादुरिंडियेन्यः परं मनः ॥ मनसोऽपि परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४० ॥ विकले दंत लोकेऽस्मिन्नमूर्त्ते मूर्त्ततामात् ॥ पश्यत्याश्चर्यवद् ज्ञानी वदत्याश्चर्यवचः ॥ ४१ ॥ वेदनापि न मूर्त्तत्वनिमित्ता स्फुटमात्मनः ॥ पुरुलानां तदापत्तेः किं त्वशुद्धस्वशक्तिजा ॥ ४२ ॥ क्षद्वारा यथा ज्ञानं स्वयं परिणमत्ययम् ॥ तथेष्टानिष्टविषयस्पर्शघारेण वेदनाम् ॥ ४३ ॥ विपाककालं प्राप्यासौ वेदनापरिणामजाक || मूर्त्त निमित्तमात्रं नो घंटे दंरुवदन्वयि ॥ ४४ ॥ ज्ञानाख्या चेतना बोधः कर्म्माख्या विष्टरक्तता ॥ जंतोः | कर्मफलाख्या सा वेदना व्यपदिश्यते ॥ ४५ ॥ नात्मा तस्मादमूर्त्तत्वं चैतन्यं चातिवर्तते ॥ तो देहेन नैकत्वं तस्य मूर्त्तेन अधिकार. १८ ॥ २३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy