________________
क्रुधा ॥ पिशुनासन्य मिथ्यावाक् प्रणिधानं च मायया ॥ ११ ॥ चौर्य्यधीर्निरपेक्षस्य तीव्रक्रोधाकुलस्य च ॥ सर्वानिशंकाकलुषं चित्तं च धनरक्षणे ॥ १२ ॥ एतत्सदोषकरणकारणानुमतिस्थिति ॥ देशविरतिपर्यंतं रौषध्यानं चतुर्विधम् ॥ १३ ॥ कापोतनीलकृष्णानां लेश्यानामत्र संभवः ॥ श्रतिसंक्लिष्टरूपाणां कर्मणां परिणामतः ॥ १४ ॥ उत्सन्नबद्दुदोषत्वं नानामा| रणदोषता || हिंसादिषु प्रवृत्तिश्च कृत्वाघं स्मयमानता ॥ १९ ॥ निर्दयत्वाननुशयौ बहुमानः परापदि ॥ लिंगान्यत्रेत्यदो धीरें| स्त्याज्यं नरकदुःखदम् ॥ १६ ॥ प्रशस्ते इमे ध्याने पुरते चिरसंस्तुते ॥ प्रशस्तं तु कृताच्यासो ध्यानमारोढुमर्हति ॥ १७ ॥ जावना देशकालौ च स्वासनावनक्रमान् ॥ ध्यातव्यध्यात्रनुप्रेक्षालेश्यालिंगफलानि च ॥ १८ ॥ ज्ञात्वा धर्म्य ततो ध्याये - |च्चतस्रस्तत्र जावनाः ॥ ज्ञानदर्शनचारित्रवैराग्याख्याः प्रकीर्तिताः ॥ १९ ॥ निश्चलत्वमसंमोहो निर्जरा पूर्वकर्मणाम् ॥ संगा| शंसायोच्छेदः फलान्यासां यथाक्रमम् ॥ २० ॥ स्थिरचित्तः किलैता निर्याति ध्यानस्य योग्यताम् ॥ योग्यतैव हि नान्यस्य तथाचोक्तं परैरपि ॥ २१ ॥ चंचलं हि मनः कृष्ण प्रमाथि बलवत् दृढम् ॥ तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् | ॥ २२ ॥ श्रसंशयं महाबाहो मनो दुर्निग्रहं चलम् ॥ श्रन्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥ २३ ॥ श्रसंयतात्मनो योगो दुःप्राप्य इति मे मतिः ॥ वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ २४ ॥ सदृशप्रत्ययावृत्त्या वैतृष्ण्याद्वहिरर्थतः ॥ एतच्च युज्यते सर्व जावनाभावितात्मनि ॥ २५ ॥ स्त्रीपशुकीबदुःशीलवर्जितं स्थानमागमे ॥ सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ॥ २६ ॥ स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने ॥ तेन यत्र समाधानं स देशो ध्यायतो मतः ॥ २७ ॥ यत्र योगसमाधानं कालोsपीष्टः स एव हि । दिनरात्रिक्षणादीनां ध्यानिनो नियमस्तु न ॥ २० ॥ यैवावस्था जिता जातु