________________
कार व ज्ञाने गुणस्तन्नात्र दर्शने ॥ ४२ ॥ प्रत्युतानित्यजावे हि स्वतः दजनुर्द्धिया ॥ देवनादरतः सर्वक्रियाविफलता जवेत् ॥ ४३ ॥ तस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनम् ॥ नित्य सत्य चिदानंदपदसंसर्गमिचता ॥ ४४ ॥ न कर्त्ता नापि जोक्तात्मा कापिलानां तु दर्शने ॥ जन्यधर्माश्रयो नायं प्रकृतिः परिणामिनी ॥ ४५ ॥ प्रथमः परिणामोऽस्या बुद्धिर्धर्माष्ट काऽन्विता ॥ ततोऽहंकारतन्मात्रैषियजूतोदयः क्रमात् ॥ ४६ ॥ चिद्रूपपुरुषो बुद्धेः सिध्यै चैतन्यमानतः ॥ सिद्धिस्तस्या विषयाऽवच्छेद नियमाच्चितः ॥ ४७ ॥ हेतुत्वे पुंस्प्रकृत्यर्थेत्रियाणामत्र निर्वृतिः ॥ दृष्टादृष्टविभागश्च व्यासंगश्च न युज्यते ॥ ४८ ॥ स्वप्ने व्याघ्रादिसंकल्पान्नरत्वाननिमानतः ॥ अहंकारश्च नियतव्यापारः परिकहप्यते ॥ ४९ ॥ तन्मात्रादिक्रमस्त| स्मात्प्रपंचोत्पत्तिहेतवे ॥ इवं बुद्धिर्जगत्कर्त्री पुरुषो न विकारजाकू ॥ ९० ॥ पुरुषार्थोपरागौ धौ व्यापारावेश एव च ॥ छात्रांशी वेदयहं वस्तु करोमीति च धीस्ततः ॥ ५१ ॥ चेतनोऽहं करोमीति बुद्धेर्भेदाग्रहात्स्मयः ॥ एतन्नाशेऽनवछिन्नं | चैतन्यं मोक्ष इष्यते ॥ ९२ ॥ कर्तृबुद्धिगते दुःखसुखे पुंस्युपचारतः ॥ नरनाथे यथा नृत्यगतौ जयपराजयौ ॥ ५३ ॥ कर्त्ता जोक्ता च नो तस्मादात्मा नित्यो निरंजनः ॥ श्रध्यासादन्यथा बुद्धिस्तथा चोक्तं महात्मना ॥ २४ ॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा ॥ अहंकारविमूढात्मा कर्त्ताहमिति मन्यते ॥ ९९ ॥ विचार्यमाणं नो चारु तदेतदपि दर्शनम् ॥ कृतिचैतन्ययोर्व्यक्तं सामानाधिकरण्यतः ॥ ९६ ॥ बुद्धिः कत्री च नोत्री च नित्या चेन्नास्ति निर्वृतिः ॥ नित्या चेन्न | संसारः प्राग्धर्मादेरयोगतः ॥ ७ ॥ प्रकृतावेव धर्मादिस्वीकारे बुद्धिरेव का ॥ सुवचश्च घटादौ स्यादी द्दग्धम्र्म्मान्वयस्तथा
१ ऽवच्छेद नियमान्वित इति वा पाठः ।