SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ | मित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसंगमाशंक्याहानागता ती तविषयेषु यलिंगज्ञान मुदेति श्रयं काल आसन्न भविष्यद्वृष्टिकस्तथाविधमेघोन्नतिमत्त्वात्, अयं प्रदेश आसन्नवृष्टमेघः पूर विशेषवत्त्वादि (त्यादि) रूपं तन्मुक्त्वा । इदमुपलक्षणं, नावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्य तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् । यद्यस्पृष्टाविषयार्थज्ञानं | दर्शनमनिमतं, तर्हि मनःपर्यायज्ञानेऽतिप्रसंग इत्याशंक्य समाधत्ते - "मणपवनाएं दंसणं ति तेणेह होइ ए य जुत्तं । नन्नइ नाणं णोइंदियंमि ए घमादर्ज जम्हा || २४ ॥ " एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तं, परकीयमनोगतानां | घटादीनामासंव्यानां तत्रासत्त्वेनास्पृष्टेऽविषये च घटादावर्थे तस्य जानात्, न चैतद्युक्तं, आगमे तस्य दर्शनत्वेनापाठात् । जण्यतेऽत्रोत्तरम् - नोइंद्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव, न दर्शनं, यस्मादस्पृष्टा घटादयो नास्य विषय इति शेषः । नित्यं तेषां लिंगानुमेयत्वात् । तथा चागमः - "जाइ बनेणुमाणाति" मनोवर्गणास्तु परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसंगः। परकीयमनोगतार्थाकार विकल्प एवास्य ग्राह्यः, तस्य चोजयरूपत्वेऽपि बाझ स्थिकोपयोगस्यापरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञाने दर्शनसंजय इत्यप्याहुः । किं च - "म - सुनाए एमित्तो बमत्थे होइ अडवलंनो । एगयरंमि वि तेसिं ए दंसणं दंसणं कत्तो ||२५|| ” मतिश्रुतज्ञाननिमित्तः उद्मस्थानामर्थोपलंन उक्त आगमे । तयोरेकतरस्मिन्नपि न दर्शनं संजवति । न चावग्रहो दर्शनं, तस्य ज्ञानात्मकत्वात्, ततः कुतो दर्शनं ? नास्तीत्यर्थः । ननु श्रुतमस्पृष्टेऽर्थे किमिति दर्शनं न जवेत्तत्राह - "जं पञ्चरकग्गहणं ण इति सुनाए संमिया वा । तम्हा दंसणसद्दो ए होइ सयले वि सुना ॥ २६ ॥” यस्माच्छ्रुतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy