________________
श्रुतनिश्चि(नि) तातिरिक्त एवेति विभावनीयम् स्वसमय निष्णातैः । ब्रह्माकारबोधस्य मानसत्वे “नावेदविन्मनुते तं बृहतं वेदेनैव तद्वेदितव्यं तं त्वौपनिषदं पुरुषं पृवामीत्यादिश्रुतिविरोध इति चेन्नादत्वेऽपि “यहाचानन्युदितं न चक्षुषा गृह्यते, नपि वाचा, यतो वाचो निवर्तन्ते" इत्यादिश्रुतिविरोधस्तुल्य एव । अथ वाग्गम्यत्वनिषेधक श्रुतीनां मुख्यवृत्त्यविषयत्वावगा| हित्वेनोपपत्तिर्जहदजहल्लक्षणयैव ब्रह्मणि महावाक्यगम्यत्वप्रतिपादनात् मनसि तु मुख्यामुख्यजेदाभावात् “यन्मनसा न मनुते" इत्यादि विरोध एव "सर्वे वेदा यत्रैकं जवन्ति स मानसीन आत्मा मनसैवानुप्रष्टव्यः" इत्यादिश्रुतौ मानसी - | नत्वं तु मनस्युपाधावुपलभ्यमानत्वं, न तु मनोजन्यसाक्षात्कारत्वं, मनसैवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्वप्रतिपाद| नार्था मनसो दर्शनकर्तृत्वमाह, न करणतां, औपनिषदसमाख्या विरोधात् । "कामः संकटपो विचिकित्सा श्रवाऽश्रा धृतिरधृतिहींर्धीजीरित्येतत्सर्वं मनस एवेति” श्रुतौ मृद्घट इतिवडपादानकारणत्वेन मनः सामान्याधिकरण्यप्रतिपादनात्, | तस्य निमित्तकारणत्वविरोधाच्चेति चेन्न कामादीनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेर्मनः परिणतात्मलक्षण नावमनोविपयताया एव न्याय्यत्वात्, “मनसा ह्येव पश्यति मनसा शृणोति" इत्यादौ मनःकरणस्यापि श्रुतेदर्घकालिकसंज्ञानरूपदर्शनग्रहणेन चक्षुरादिकरणसत्त्वेऽपि तत्रैवकारार्थान्वयोपपत्तेः, त्वन्मतेपि ब्रह्मणि मानसत्वविधिनिषेधयोर्वृत्तिविषयत्वत| डुपरक्तचैतन्या विषयत्वाच्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वभावजंगप्रसंग एव स्पष्टं दूषणम् । न च प्रथमं | परोक्षज्ञानं जनयतोऽपि शब्दस्य विचारसहकारेण पश्चादपरोक्षज्ञानजनकत्वमिति न दोष इति वाच्यम्, अर्धजरतीयन्यायापातात् । न खलु शब्दस्य परोक्षज्ञानजननस्वाजाव्यं सहकारिसहस्रेणाप्यन्यथा कर्तुं शक्यं आगन्तुकस्य स्वजावत्वा