SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥१५॥ त्वाप्रयोजिका, वास्तवविषयतायाः कुत्राप्यनंगीकाराघ्यावहारिक्याश्च तुट्यत्वात् । न च ब्रह्मणि ज्ञानविषयताऽसंजवेऽपि विन्ः ज्ञाने ब्रह्मविषयता तद्विंबग्राहकत्वरूपाऽन्या वा काचिदनिर्वचनीया संजवतीति नानुपपत्तिः, विषयतैवाकारः प्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एवाज्ञाननिवर्तकत्वं, अज्ञानविषयस्वरूपाकारापरोक्षप्रमात्वस्य सर्वत्रानुगत- + त्वात् । न चेदमित्याकारं घटाकारमिति शंकितुमपि शक्यं, श्राकारजेदस्य स्फुटतरसाक्षिप्रत्यक्षसिद्धत्वादिति वाच्यम् , ज्ञाननिष्ठाया अपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तन्निरूपकत्वधर्मसत्त्वे निर्धर्मकत्वव्याघातात्, उन्नयनिरूप्यस्य विषयविषयिजावस्यैकधर्मत्वेन निर्वाहायोगात् । न च ब्रह्मण्यपि कहिपतविषयतोपगमे कर्मत्वेन न जमत्वापातः, स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात् , घटादौ हि विषयता स्वसमानसत्ताका, योरपि व्यावहारिकत्वात् , ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्यादिति वाच्यम् , सत्ताया श्व विषयताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि बाधकालावात् , परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववच्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिक पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताद्युपलहणजेदेऽप्युपलक्ष्यमेकमेवेति न दोष इति चेविषयतायामप्येप एव न्यायः। एवं चानन्तधर्मात्मकधर्म्यजेदेऽपि ब्रह्मणि कौटस्थ्यं ब्यार्थादेशादव्याहतमेव। १२०॥ तथा चान्यूनानतिरिक्तधर्मात्मजव्यस्वन्नावलाजलदाणमोदगुणेन जगवन्तं तुष्टाव स्तुतिकारः-" नववीजमनन्तमुज्कितं, विमलझानमनन्तमर्जितम् । न च हीनकलोऽसि नाधिकः समतां चाप्यतिवृत्य वर्तसे ॥१॥इति"। एतेन चैतन्यवि१ तन्निवृत्तिकत्वधर्मसत्वे. २ स्यैकनिष्ठत्वेन.
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy