________________
झान
बिन्ः
॥१४३ ॥
परिणामो नवति निसर्गः स्वन्नावश्चेति ” । यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एवाश्रयणीयः । तदिदमनिप्रेत्याह महावादी सिद्धसेनः-"वैयर्थ्यातिप्रसंगान्यां न मत्यन्यधिकं श्रुतमिति” इत्याहुः ।।
अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं, रूपिसमव्याप्यविषयताशाविज्ञानं परमाव|धिज्ञानं "रूवगयं लहइ सबं” इति वचनात्, तवृत्तिानत्वव्याप्या जातिरवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः। समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगध्यापकविषयताकस्य केवलस्यरूपिव्यापकविषयताकत्वनियमात् तवृत्तिकेवलत्वमा दाय केवलझानेऽतिव्याप्तिः, समव्याप्यत्वदाने त्वरूपिणि व्यभिचारात्केवलज्ञानविषयताया रूप्यव्याप्यत्वात्तन्निवृत्तिः। न च परमावधिज्ञानेऽप्यलोके लोकप्रमाणासंख्यारूप्याकाशखंविषयतोपदर्शनादसंजवः । यदि तावत्सु खमेषु रूपित्रव्यं स्यात्तदा पश्येदिति प्रसंगापादन एव तापदर्शनतात्पर्यात्। न च तदंशे विषयबाधेन सूत्राप्रामाण्यं, स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलाबाधात् । एतेनासन्नावस्थापना व्याख्याता । बहिर्विषयताप्रसंजिका तारतम्येन शक्तिवृधिश्च खोकमध्य एव सूक्ष्मसूमतरस्कन्धावगाहनफलवतीति न प्रसंगापादनवैयर्थ्यम् । यन्नाष्यं-“वढतो पुण बाहिं लोगत्थं चेव पासई दछ । सुदुमयर सुहुमयरं परमोही जाव परमाणुं ॥१॥” इति । अलोके लोकप्रमाणासंख्येयखंमविषयतावधेरिति वचने विषयतापदं तर्कितरूप्यधिकरणताप्रसंजिततावदधिकरणकरूपिविषयतापरमिति न स्वरूपवाधोऽपीति तत्त्वम् । जातौ ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनःपर्यायज्ञानसाधारणजातिविशेषमा-||
१४३॥