SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १४० ॥ जात्यतिरिक्तस्य किंचिधर्मप्रकारेणैव जाननियमाच्च । किं च प्रामाण्यसंशयोत्तरमिदं रजतं न वेत्येव संशयो, न तु रजतमिदं । न वा, 5व्यं रजतं न वेत्यादिरूप इति, यविशेष्यकयत्प्रकारकज्ञानत्वावच्छेदेन प्रामाण्यसंशयस्तधर्मविशिष्टे तत्प्रकारकसंशय | इति नियमादिदंत्वेन धर्मिज्ञानमावश्यकं, इदंत्वरजतत्वादिना पुरोवर्तिन उपनयसत्त्वाच्च तथाजानमनुव्यवसाये दुर्वार मिति | किमपरमवशिष्यते प्रामाण्ये ज्ञातुम् । न चैकसंबन्धेन तपति संबन्धान्तरेण तत्प्रकारकज्ञानं व्यावृत्तं, तेन संबन्धेन तत्प्रकारकत्वमेव प्रामाण्यं तच्च दुर्ग्रहमिति वाच्यं, व्यवसाये येन संबन्धेन रजतत्वादिकं प्रकारस्तेन ततोऽनुव्यवसाये. जानात. संसर्गस्य (तु) तत्त्वेनैव जानात् । तत्प्रकारकत्वं च वस्तुगत्या तत्संबन्धावन्निप्रकारताकत्वमिति प्रकारताकुक्षिप्रवेशेनैव वा तनानम् । श्रत एवेदं रजतमिति तादात्म्यारोपव्यावृत्तये मुख्य विशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वस्य दुर्ग्रहत्व मि त्युक्तेरप्यनवकाशो, वस्तुगत्या मुख्य विशेष्यताया एव निवेशात् तादात्म्यारोपे आरोप्यांशे समवायेन प्रामाण्यसत्त्वेऽप्यदतेश्च । एतेन तद्विशेष्यकत्वे सति तत्प्रकारकत्वमात्रं न प्रामाण्यं, 'इमे रंगरजते' 'नेमे रंगरजते' इति विपरीतचतुष्कमसाधारण्यात्, किं तु तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वं तच्च प्रथमानुव्यवसाये दुर्ग्रहमित्यपि निरस्तम् । वस्तुगत्या ताहशप्रकारताकत्वस्य सुग्रहत्वादेव तद्ब्रहेऽनुव्यवसायसामग्र्याऽसामर्थ्यस्य, व्यवसायप्रतिबन्धकत्वस्य वा कल्पनमनिनिवेशेन स्वबुद्धि विरंचनामात्रं, तथाकल्पनायामप्रामाणिकगौरवात् । एतेन विधेयतयाऽनुव्यवसाये स्वातंत्र्येण प्रामाण्यजाने व्यव| सायप्रतिबन्धकत्व करूपनापि परास्ता । तत्र त६ विशेष्यकतोपस्थितितदजावव विशेष्यकत्वाभावोपस्थित्यादीनामुत्तेजकत्वा|दिकरूपने महागौरवात् । यदि च विशेष्यत्वादिकमनुपस्थितं न प्रकारः, तदा विशेष्यतासंबन्धेन रजतादिमत्त्वे सति प्रकारि बिन्दुः ॥ १४० ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy