SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ संशयादीनामपि ज्ञानत्वस्य महाजाष्यकृता परिजापितत्वात् । न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं संपद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलवदित्यपि सांप्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृ | त्त्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैधान्तिकाः, जीवाजीवादिपदार्थनवक विषयकसमूहालंबनज्ञानविशेषस्यैव रुचिरूपतयाम्नातत्वात्, केवलं सत्संख्यादिमार्गणास्थानैस्तन्निर्णयो जावसम्यक्त्वं, | सामान्यतस्तु प्रव्यसम्यक्त्वमिति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणा विशेषणा दिना | सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात्, तदेव च प्रामाण्यमप्रत्यूहमिति वाच्यं, अनेकान्तव्यापकत्वादिप्रतिसंधाना हितवासनावता| मेतादृशबोधसंभवात्, तदन्येषां तु प्रव्यसम्यक्त्वेनैव ज्ञानसनावव्यवस्थितेः । अत एव चरणकरणप्रधानानामपि स्वसम| यपरसमयमुक्तव्यापाराणां प्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि जावसम्यक्त्वाभावः प्रतिपादितः संमतौ महावादिना । व्यसम्यक्त्वं च, "तदेव सत्यं निःशंकं यजिनेन्द्रैः प्रवेदितमिति” ज्ञानाहितवासनारूपं, माषतुपाद्यनुरोधानुरुपारतंत्र्यरूपं || वेत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्त्यौपयोगिकाः । तति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृत्त्यौपयिकमवशिप्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसायग्राह्यतायामविवादात्, इमं रजतत्वेन जानामीति प्रत्ययात्, तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयतृतीयार्थत्वात्, तत्र | पुरोवर्ति इदंत्वेन रजतत्वादिनापि चोपनयवशाद्भासतां । न चेदंत्ववैशिष्ट्यं पुरोवर्तिनि न जासत इति वाच्यं, विशेष्यतायां पुरोवर्तिनः स्वरूपतो जानानुपपत्तेः तादृशविशेषज्ञानाजावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापत्तेः,
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy