________________
ज्ञान
॥ १३९ ॥
पशमस्यैव तत्र व्यापारात्, तदपेक्षया जायमानत्वं च परतस्त्वं तच्चानन्यासदशायां, अयं च विभागो विषयापेक्ष्या, स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय इत्यक्षरार्थ इति । इहयैव हि सर्वत्र प्रामाण्यनिश्चयाच्युपगमे किं संवादकप्रत्य - यापेक्षया, न खस्वेकं गमकमपेक्षितमिति गमकान्तरमप्यपेक्षणीयम् । न चेहाया बहुविधत्वाद्यत्र न करणसाङ्गुण्य| विचारस्तत्रैवोक्तस्वतस्त्वपरतस्त्वव्यवस्थेति वाच्यम्, ईदायां क्वचिदुक्तविचारव्यनिचारोपगमे श्रन्यासिकापाय पूर्वेदायामनुपलक्ष्यमाणस्यापि तद्विचारस्य निरनुपपत्तेः । न चोक्तविचार ईहायां प्रमाजनकतावच्छेदको, न तु तज्ज्ञ सिजनकतावच्छेदक इत्यपि युक्तम्, करणगुणादेव प्रमोत्पत्तौ तस्यातथात्वात् । न च नाविज्ञानस्यासिद्धत्वादुक्त विचारवत्यापी - हया तफतप्रामाण्याग्रह इत्यपि सांप्रतम्, विचारेण करणसागुण्यग्रहे जाविज्ञानप्रामाण्यग्रहस्यापि संभृतसामग्री कत्वा| दित्यादिविचारणीयम् । ननु भवतां सैद्धान्तिकमते उपयोगेऽवग्रहादिवृत्तिचतुष्टयव्याप्यत्वं, एकत्र वस्तुनि प्राधान्येन | सामान्यविशेषोजयावगाहित्वपर्यात्याधारत्वं वा, तार्किकमते च प्रमेयाव्यनिचारित्वं प्रामाण्यमयोग्यत्वादन्यासेनापि दुर्ग्रहं, समर्थप्रवृत्त्यनौपयिकत्वेनानुपादेयं । पौङ्गलिकसम्यक्त्ववतां सम्यक्त्वदलिकान्वितोऽपायांशः प्रमाणं, कायिकसम्यक्त्ववतां च केवलोऽपायांश इति तत्त्वार्थवृत्त्यादिवचनतात्पर्यपर्यालोचनायां तु सम्यक्त्वसमानाधिकरणापायत्वं ज्ञानस्य प्रामाण्यं पर्यवस्यति, अन्यथाऽननुगमात्, तत्र च विशेषणविशेष्यभावे विनिगमनाविरहः । ज्ञानं प्रमाण ( मिति ) वचनं विनिगमकमिति चेत्तदपि समर्थप्रवृत्त्यैौपयिकेन रूपेण विनिगमयेत्, न तु विशिष्टापायत्वेनानीदृशेन, सम्यक्त्वा - नुगतत्वेन ज्ञानस्य ज्ञानत्वं, अन्यथा त्वज्ञानत्वमिति व्यवस्था तु नापायमात्रप्रामाण्यसाक्षिणी, सम्यग्दृष्टिसंबन्धिनां
१ नियमकल्पनाच पपत्तेः ।
बिन्दुः
॥ १३९ ॥