________________
विपर्ययपर्यवसानात्मको महावाक्यार्थबोधः, ततो हेतुस्वरूपानुबन्धत्रयविषय एव हिंसापदार्थ इत्यैदपर्यार्थबोधः, इत्येते वोधा अनुवसिद्धत्वादेव दुर्वाराः । श्रुतज्ञानमूलोहादेश्च श्रुतत्वं मतिज्ञानमूलोहादेर्मतिज्ञानत्ववदेवाच्युपेयम् । अत एव श्रुत| ज्ञानाच्यन्तरी जूतमतिविशेषैरेव पट्स्थानपतितत्वं चतुर्दशपूर्व विदामप्याचरते संप्रदाय वृद्धाः । तथा चोक्तं कपजाप्ये- "अरकरलंजेण समा ऊपहिया इंति मविसेसेहिं । ते वि य मईविसेसा सुमनानंतरे जाए || १ ||" यदि च सामान्यश्रुतज्ञानस्य विशे पपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाच्यन्तरी नृतत्वमुपयोग विच्छेदेऽप्येकोपयोगव्यवहारश्च फलप्राधान्यादेवेति विनाव्यते, तदा पदार्थ वोधयित्वा विरतं वाक्यं वाक्यार्थबोधादिरूपविचारसहकृतमावृत्त्या विशेषं बोधयदेदपर्यार्थकत्वव्यपदेशं बनत इति मन्तव्यम् । परं शब्दसंसृष्टार्थग्रहण व्यापृतत्वे पदपदार्थसंबन्धग्राहकोहादिवत्तस्य कथं न श्रुतत्वम् ? शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषो धारणसमानपरिणामः श्रुतमिति नन्दिवृत्त्यादौ दर्शनात् "सोईदिवली होइ सु सेसयं तु मनाएं । मोत्तणं दद्यां अरकरलंनो सेसेसु ॥ १ ॥ इति पूर्वगतगाथायामप्ययमेव स्वरसो लच्यते। तथा चास्यार्थः - श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणं, न तु श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेति । श्रवग्रदेहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूपत्वात् । यनाप्यकारः- “सोई दिवलधी चेव सुखं न उ मइ सुयं चैव । सोइदिबलवि काई जम्हा मन्नाणं " शेषं तु यच्चक्षुरादीन्द्रियोपलब्धिरूपं तन्मतिज्ञानं, तुशब्दोऽनुक्तसमुच्चयार्थः, स चावग्रहेहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समु च्चिनोति, यत्राप्यकारः - "तु समुच्चयवयणा काई सोई दिवलीवि । मइ एवं सइ सोउग्गहादर्ज होंति मनेया" ॥१॥ अपवादमाह - मुक्त्वा व्यश्रुतं पुस्तकपत्रादिन्यस्ताक्षररूपं, तदाहितायाः शब्दार्थ पर्यालोचनात्मिकायाः शेषेन्द्रियोपलब्धे
अ