SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १३६ ॥ मनः पर्यायनेदाच्चतुर्विधं क्षायोपशमिकं ज्ञानं, पंचमं च क्षायिकं केवलज्ञानमिति पंचप्रकारा ज्ञानस्य तत्र मति| ज्ञानत्वं श्रुताननुसार्यन तिशयितज्ञानत्वं अवग्रहादिक्रमवडुपयोगजन्यज्ञानत्वं वा, अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसार्येवेति न तयोर तिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसंबन्धप्रतिसंधानजन्यज्ञानत्वं तेन न सविकरूपकज्ञानसामग्री मात्रप्रयोज्यपद विषयताशालिनी हापायधारणात्मके मतिज्ञानेऽव्याप्तिः । ईहादिमतिज्ञानभेदस्य श्रुतज्ञानस्य च साक्षरत्वाविशेषेप्ययं घट इत्यपायोत्तरमयं घटनामको न वेति संशयादर्शनात्, तत्तन्नाम्नोऽप्यपायेन ग्रहणात् तचारणोपयोगे दं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य इति पदपदार्थसंवन्धग्रहस्यापि धौव्येण, तजनितश्रुतज्ञानस्यैव श्रुतानुसा| रित्वव्यवस्थितेः । अत एव धारणात्वेन श्रुतहेतुत्वात् "मपुषं सु" इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्व विधिः, “ न मई सुत्रापुबिया" इत्यनेन च मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽनिहितः संगछते । कथं तर्हि श्रुतनिश्रिताश्रुतनि| श्रितभेदेन मतिज्ञानमै विध्यानिधानमिति चेदुच्यते - स्वसमानाकार श्रुतज्ञाना हितवासनाप्रबोधसमानकालीनत्वे सति श्रुतो|पयोगाजावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदं, उक्तवासनाप्रबोधो धारणादाययोपयुज्यते श्रुतोपयोगाभावश्च मति ज्ञानसामग्री संपादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाच्छ्रुतज्ञानस्यैवापत्तेः, मतिज्ञानसामग्र्याः श्रुतज्ञानोत्पत्ति| प्रतिबन्धकत्वेऽपि शाब्देवास्थानीयस्य तस्योत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्यस्मरणमपि च श्रुतज्ञानमध्य एव परिगणनीयम् । उक्तवासनाप्रवोधासमानकालीनं च मतिज्ञानमौत्पत्तिक्यादिचतुर्भेदमश्रुतनिश्रितमि | त्यभिप्रायेण द्विविधागे दोषाभावः । तदिदमाह महाजाप्यकार:- “ पुत्रिं सुपरिकम्मियमइस्स जं संपयं सुनाई । तं बिन्दुः ॥ १३६ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy