SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ त्वानन्तानुबन्ध्यादिप्रकृतीनां प्रदेशोदये क्षायोपशमिको जावोऽविरुद्धो, न विपाकोदये, तासां सर्वघातिनीत्वेन तप्रसस्पर्धकस्य तथाविधाध्यवसायेनापि देशघातितया परिणमयितुमशक्यत्वासस्य देशघातितया परिणामे तादात्म्येन देशघातिन्या हेतुत्वकपनात् । विपाकोदय विष्कंजणं तु तासु सर्वघा तिरसस्पर्धकानां क्षायोपशमिकसम्यक्त्वा दिलब्ध्यनिधायक सिद्धान्तक्लेन क्षयोपशमान्यथानुपपत्त्यैव तथाविधाध्यवसायेन कल्पनीयम् । केवलज्ञान केवलदर्शनावरणयोस्तु विपाकोदय विष्कं जायोग्यत्वे स्वभाव एव शरणमिति प्राञ्चः । हेत्वभावादेव तदजावस्तछेतुत्वेन कप्यमानेऽध्यवसाये तत्क्ष्यहेतुत्वकल्पनाया | एवौचित्यादिति तु युक्तं, तस्मान्मिथ्यात्वादिप्रकृतीनां विपाकोदये न क्षयोपशमसंजयः, किं तु प्रदेशोदये । न च सर्वघाति| रसस्पर्धक प्रदेशा अपि सर्वस्वघात्यगुणघातनस्वजावा इति तत्प्रदेशादयेऽपि कथं क्षायोपशमिकजावसंजय इति वाच्यम्, | तेषां सर्वघा तिरसस्पर्धकप्रदेशानामध्यवसाय विशेषेण मनाग्मन्दानुजावी कृतविरलवेद्यमानदेशघातिरसस्पर्धकेष्वन्तः प्रवेशिता । नां यथास्थितस्वबलप्रकटनासमर्थत्वात् । मिथ्यात्वाद्यद्वादशकपायरहितानां शेषमोहनीयप्रकृतीनां तु प्रदेशोदये विपाको - दये वा क्षयोपशमोऽविरुद्धः, तासां देशघातिनीत्वात्, तदीयसर्वघा तिरसस्य देशघातित्वपरिणामे हेतुश्चारित्रानुगतोऽध्यवसायविशेष एव प्रष्टव्यः परं ताः प्रकृतयोऽध्रुवोदया इति तद्विपाकोदयाभावे क्षायोपशमिकनावे विजृनमाणे, प्रदे| शोदयवत्योऽपि न ता मनागपि देशघातिन्यः । विपाकोदये तु वर्तमाने क्षायोपशमिकजावसंनवे मनाग्मालिन्यकारित्वादेशघातिन्यस्ता जवन्तीति संदेषः । विस्तरार्थिना तु मत्कृतकर्मप्रकृति विवरणादिविशेषग्रन्था अवलोकनीयाः । उक्ता क्षयोपशमप्रक्रिया । इत्थं च सर्वघा तिरसस्पर्धकवन्मतिज्ञानावरणादिक्ष्योपशमजनितं मतिश्रुतावधि
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy