SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १३४ ॥ सर्वघातीन्येव जवन्ति, उक्तशेषाणां पंचविंशतिघातिप्रकृतीनां देशघातिनीनां रसस्पर्धकानि यानि चतुःस्थानकानि यानि च त्रिस्थानकानि तानि सर्वघातीन्येव, दिस्थानकानि तु कानिचित् सर्वघातीनि कानिचिच्च देशघातीनि, एकस्थानका नि तु सर्वाण्यपि देशघातीन्येव । तत्र ज्ञानावरणचतुष्कदर्शनावरणत्रयसंज्वलनचतुष्कान्तरायपंचकपुंवेदलक्षणानां सप्तदशप्रकृतीनामेकवित्रिचतुःस्थानकरसा बन्धमाश्रित्य प्राप्यन्ते, श्रेणिप्रतिपत्तेरर्वागासां विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धात् । श्रेणिप्रतिपत्तौ त्वनिवृत्तिवादरायायाः संख्येयेषु भागेषु गतेष्वत्यन्त विशुद्धाध्यवसायेनाशुभत्वादासा मेकस्थानकरसस्यैव बन्धात् शेषास्तु शुभा शुजा वा बन्धमधिकृत्य दिस्थानकरसा स्त्रिस्थान करसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न कदाचनाप्येकस्थानकरसाः । यत उक्तं- "सप्तदशव्यतिरिक्तानां हास्याद्यानामशुभप्रकृतीनामेकस्थानकरसदन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां नवत्येव न, यदा त्वेकस्थानकरसबन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृत्तिवादराधायाः संख्येयेच्यो जागेन्यः परतो जायते, तदा बन्धमेव न ता आयान्तीति " । न च यथा श्रेष्यारोहेऽनिवृत्तिवादराधायाः संख्येयेषु जागेषु गतेषु परतोऽतिविशुधत्वान्मतिज्ञानावरणादीनामेकस्थानकरसबन्धः, तथा रूपकश्रेष्यारोहे सू संपरायस्य चरमधिचरमादिसमयेषु वर्तमानस्यातीव विशुद्धत्वात् केवल धिकस्य संजवद्वन्धस्यैकस्थानकरसबन्धः कथं न जवतीति शंकनीयम् । स्वल्पस्यापि केवलधिकरसस्य सर्वघातित्वात्, सर्वघातिनां च जघन्यपदेऽपि विस्थानकरसस्यैवसंजवात्, शुजानामपि प्रकृतीनामत्यन्तशुद्ध वर्तमानश्चतुःस्थानकमेव रसं बध्नाति ततो मन्दमन्दतरविशुद्ध तु त्रिस्थानकं दिस्थानकं वा, संशायायां वर्तमानस्तु शुभप्रकृतीरेव न बनातीति कुतस्तगतरसस्थानक चिन्ता । यास्त्वतिसंक्लिष्टे बिन्दुः ॥ १३४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy