SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ जैनतर्क ॥ १२५ ॥ एवजे नार्थप्रतिपादकत्वाद्धूमवदस्यानुमानेऽन्तर्भावः, कूटाकूटकार्षापण निरूपणप्रवणप्रत्यवदन्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवास्यार्थबोधकत्वात् । यथा स्थितार्थपरिज्ञानपूर्वक हितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं तद्वचनं । वर्णोऽकारादिः | पौलिकः । पदं संकेतवत् । अन्योऽन्यापेक्षाणां पदानां समुदायो वाक्यं । तदिदमागमप्रमाणं । स च विधिप्रतिषेधान्यां स्वार्थमजिदधानः सप्तजंगी मनुगच्छति । तथैव परिपूर्णार्थप्रापकत्वलक्षणतात्त्विकप्रामाण्यनिर्वाहात्, क्वचिदेकजंगदर्शनेऽपि व्युत्प| न्नमतीनामितरजंगाक्षेपभौव्यात् । यत्र तु घटोस्ती त्या दिलोकवाक्ये सप्तजंगी संस्पर्शशून्यता । तत्रार्थप्रापकत्वमात्रेण लोकापे| दया प्रामाण्येऽपि तत्त्वतो न प्रामाण्यमिति प्रष्टव्यम् । केयं सप्तभंगीति चेमुच्यते - एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कम्पनया स्यात्कारांकितः सप्तधा वाक्प्रयोगः सप्तजंगी । इयं च सप्तजंगी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां संभवात् सप्तविधसंशयोत्थापितसप्तविध जिज्ञासामूलसप्तविधप्रश्नानुरोधाडुपपद्यते । तत्र | स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो जंगः । स्यात्कथञ्चित् स्वप्रव्य क्षेत्रकालजावापेक्षयेत्यर्थः । अस्ति हि | घटादिकं प्रव्यतः पार्थिवादित्वेन, न जलादित्वेन, क्षेत्रतः पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन, कालतः शैशिरादिवेन, न वासन्तिकादित्वेन, जावतः श्यामादित्वेन, न रक्तादित्वेनेति । एवं स्यान्नास्त्येव सर्वमिति प्राधान्येन निषेधकरूपनया द्वितीयः । न चासत्त्वं काहपनिकं । सत्त्ववत्तस्य स्वातंत्र्येणानुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याभावेन है| तोस्त्रैरूप्यव्याघातप्रसंगात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति | युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः । एकेन पदेन युगपडुनयोर्वक्तुमशक्यत्वात् । शतृशानचौ सदित्यादौ सांके परिभाषा. ॥ १२५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy