________________
१२४ ॥
जैनतर्क चरमिति । प्रतिषेधरूपोऽपि हेतुर्द्विविधः, विधिसाधकः प्रतिषेधसाधकश्चेति । श्राद्यो विरुद्धानुपलन्धिनामा विधेयविरुद्धकार्यकारणस्वनावव्यापकसहचरानुपलंजनेदासश्चधा । यथा अस्त्यत्र रोगातिशयः, नीरोगव्यापारानुपलब्धेः १। विद्यतेऽत्र कष्टं, इष्टसंयोगाभावात् २। वस्तुजातमनेकान्तात्मकं, एकान्तस्वभावानुपलंजात् ३ । अस्त्यत्र छाया, औप्प्यानुपलब्धेः ॥ अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेरिति ॥ द्वितीयोऽविरुद्धानुपलब्धिनामा प्रतिषेध्याविरुद्धस्वनावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरानुपलब्धिभेदात् सप्तधा । यथा नास्त्यत्र नृतले कुंनः, उपलब्धिलक्षणप्राप्तस्य तत्स्वजावस्या - |नुपलंजात् १| नास्त्यत्र पनसः, पादपानुपलब्धेः २ | नास्त्यत्राप्रतिहतशक्तिकं बीजं, अंकुरानवलोकनात् ३ । न सन्त्यस्य प्रशमप्रभृतयो जावाः, तत्त्वार्थश्रद्धानाभावात् ४। नोमिष्यति मुहूर्तान्ते स्वातिः, चित्रोदयादर्शनात् । नोदगमत्पूर्वजापदा मुहूर्तात्पूर्वमुत्तरनापदो मानवगमात् ६ । नास्त्यत्र सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेरिति । सोऽयमनेकविधोऽअन्यथानुपपत्त्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः, स त्रेधा, असिद्ध विरुद्धानैकान्तिकनेदात् । तत्राप्रतीयमानस्वरूपो हेतुर सिद्धः, स्वरूपाप्रतीतिश्चाज्ञानात्सन्देहाद्विपर्ययाघा, स द्विविध, उज्जयासियोऽन्यतरा सिद्धश्च । आद्यो यथा शब्दः परिसामी चाक्षुषत्वादिति । द्वितीयो यथा चेतनास्तरवः, विज्ञानेन्द्रियायुर्निरोधजद मरणरहितत्वात्, अचेतनाः सुखा| दयः उत्पत्तिमत्त्वादिति वा । नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति, तथाहि परेणासिद्ध इत्युनाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावाडुनयोरप्य सिद्धोऽथाचदीत तदा प्रमाणस्यापक्षपातित्वा मुनयोरपि सिद्धः । अथ यावन्न परं प्रति प्रमाणेन प्रसाध्यते तावत्तं प्रत्यसिद्ध इति चेत् गौणं तर्ह्यसिद्धत्वं, न हि रत्नादिपदार्थस्तत्त्वतोऽप्रती
परिभाषा.
॥ १२४ ॥