SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ जैनतर्क परिजापा. ॥१२३॥ हेतुवचनलक्षणमवयवयमेव च परप्रतिपत्त्यङ्गं, न दृष्टान्तादिवचनं, पहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्तत्स्मरणस्यापि पक्षहेतुदर्शनेनैव सिधेरसमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात्तत्समर्थनेनैवान्यासिधेश्च ।। समर्थनं हि हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाविनानावसाधनं, तत एव च परप्रतीत्युपपपत्तौ किमपरप्रयासेनेति। मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु श्योपशमविशेषादेव निर्णीतपदो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवान्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाद्यापि पक्षनि यस्तं प्रति पदोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति दृष्टान्तोऽपि । यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकादं प्रति च निगमनं । पदादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पशुध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । स चायं विविधो, विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो विविधः, विधिसाधकः प्रतिषेधसाधकश्च । तत्राद्यः षोढा, तद्यथा-कश्चिध्याय एव, यथा शब्दो नित्यः प्रयत्नानान्तरीयकत्वादिति, यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्यात्र ग्रहणानेदः, वृदः शिंशपाया इत्यादेरप्यत्रैवान्तावः। कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यनूतः, तदनावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित्कारणरूपः, यथा दृष्टिलविष्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यनूतं वर्ष गमयति । ननु कार्याजावेऽपि संजवत्कारणं न कार्यानुमापकं, अत एव न वह्निधूमं गमयतीति चेत्सत्यं, यस्मिन्सामाप्रतिबन्धः कारणान्तरसाकड्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा ॥१२३॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy