________________
गम्यमानत्वादप्रयोगति सौगतः, तन्न, यत्किञ्चिचनव्यवहितात् ततो व्युत्पन्नमतेः पदप्रतीतावप्यन्युत्पन्नान् प्रत्यवश्यनिर्देश्यत्वात् । प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात्ततोऽवगम्यमानस्य पदस्याप्रयोगस्य चेष्टत्वात् । अवश्यं चान्युपगन्तव्यं हेतोः प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत्साध्यस्यापि तदर्थ पदवचनं ताथागतेनापि,अन्यथा समथनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसंगात् , मन्दमतिप्रतिपत्त्यर्थस्य चोजयत्राविशेषादिति । किं च प्रतिज्ञायाः प्रयोगानहत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि, परानुग्रहार्थ शास्त्रे तत्प्रयोगश्च वादेऽपि तुझ्यः। विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेस्तत एवोपपत्तेरिति । आगमात्परेणेव ज्ञातस्य वचनं परार्थानुमानं, यथा बुधिरचेतना उत्पत्तिमत्वात् घटवदिति सांख्यानुमानं । अत्र हि वुझावुत्पत्तिमत्त्वं सांख्येनैवान्युपगम्यते इति, तदेतदपेशलं, वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिपत्तेः । अन्यथा तत एव साध्यसिधिप्रसंगात् । परीक्षापूर्वमागमान्युपगमेऽपि परीक्षाकाले तद्वाधात् । नन्वेवं नवनिरपि कश्रमापाद्यते परं प्रति, यत्सर्वङ्कं तन्नानेकत्र संबध्यते, तथा च सा-3 मान्यमिति, सत्यम् , एकधर्मोपगते धर्मान्तरसंदर्शनमात्रतत्परत्वे तदापादनस्य वस्तुनिश्चायकत्वाजावात् , प्रसंगविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात् , अनेकवृत्तित्वव्यापकानेकत्वनिवृत्त्यैव तन्निवृत्तमौलहेतुपरिकरत्वेन प्रसंगोपन्यासस्यापि न्याय्यत्वात् । बुधिरचेतनेत्यादौ च प्रसंगविपर्ययहेतोर्व्याप्तिसिधिनिवन्धनस्य विरुधधर्माध्यासस्य विपक्षवाधकप्रमाणस्यानुपस्थापनात प्रसंगस्याप्यन्याय्यत्वमिति वदन्ति ।हेतुःसाध्योपपत्त्यन्यथानुपपत्तिन्यां विधा प्रयोक्तव्यो, यथा पर्वतो वह्निमान्, सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ दितीयप्रयोगस्यैकत्रानुपयोगः । पद