________________
जैनतर्क
॥ १२१ ॥
पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः । अन्यत्र तु वहिर्व्याप्तिरिति" । तत्रान्तर्व्यात्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुनावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्तव्य निचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाजात् । सार्वत्रिक्या व्याप्तेर्विषयनेदस्य दुर्वचत्वात् न चेदेवं तदान्तर्व्याप्तिग्रहकाल एव च पक्षसाध्यसंसर्गजा| नादनुमानवैफट्ट्यापत्तिर्विना पर्वतो वह्निमानित्युद्देश्यप्रतीतिमिति यथातंत्रं जावनीयं सुधीजिः । इत्थं च पक्कान्येतानि सहकार फलान्येकशाखाप्रजवत्वामुपयुक्तसहकारफलवदित्यादौ बाधितविषये, मूर्खोऽयं देवदत्तस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ | सत्प्रतिपक्षे चातिप्रसंगवारणायावाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पांचरूप्यं हेतुलक्षणमिति नैया - | विकमतमप्यपास्तम् । उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवा सिद्धेः, स श्यामस्तत्पुत्रत्वादित्यत्र हेत्वाजासेऽपि पांच रूपयसत्त्वाच्च । निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् । ननु हेतुना साध्यमनुमातव्यं, तत्र किं लक्षणं ? साध्य| मिति चेटुच्यते, प्रतीतम निराकृतमभीप्सितं च साध्यम् । शंकितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीत| मिति विशेषणम् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसांक्षी दित्यनिराकृतग्रहणम् । श्रनमितस्यासाध्यत्वप्रतिपत्तयेऽनीप्सितग्रहणम् । कथायां शंकितस्यैव साध्यस्य साधनं युक्तमिति कश्चित् । तन्न । विपर्यस्ताव्युत्पन्नयोरपि परपक्ष दिदृक्षादिना कथायामुपसर्पणसंजवेन संशयनिरासार्थमिव विपर्ययानध्यवसाय निरासार्थमपि प्रयोगसंजवात् । पित्रादेर्विपर्यस्ताव्युत्पन्नपुत्रा| दिशिक्षाप्रदानदर्शनाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्तस्य सानिमानत्वेन विपर्यस्तत्वात्। अनिराकृतमिति विशेषणं वादिप्रतिवाद्युजयापेक्ष्या, घ्योः प्रमाणेनावाधितस्य कथायां साध्यत्वात् । अनीप्सितमिति तु वाद्यपेक्षयैव ।
परिभाषा.
॥ १२१ ॥