________________
जैनतर्क
॥ ११५ ॥
कारभेदेऽपि चित्रज्ञानवदेकस्य तस्यानुभूयमानत्वात्, स्वसामग्री प्रजवस्यास्य वस्तुतोऽस्पष्टैकरूपत्वाच्च । इदंतोल्लेखस्य प्रत्य| जिज्ञानिबन्धनत्वात् । विषयाभावान्नेदमस्तीति चेन्न, पूर्वापर विवर्तवर्त्येकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । अत एवागृही तासंसर्गकमनुजवस्मृतिरूपं ज्ञानघयमेवैतदिति निरस्तं । इत्थं सति विशिष्टज्ञानमात्रोछेदापत्तेः । तथा प्रत्यक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तमिति केचित् तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्यासिद्धेः । प्रत्यभिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनानुभूयमानत्वात् । श्रन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसंगात् । श्रथ| पुनदर्शने पूर्वदर्शना हितसंस्कारप्रबोधोत्पन्नस्मृतिसहाय मिन्द्रियं प्रत्यनिज्ञानमुत्पादयतीत्युच्यते, तदनुचितं, प्रत्यक्षस्य स्मृ|तिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञांनस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याप्युवेदप्रसंगात् । किं च | प्रत्यभिजानामीति विलक्षणप्रतीतेरप्यतिरिक्तमेतत् । एतेन विशेष्येन्द्रियसन्निकर्षसत्त्वाविशेषाज्ञाने सति विशिष्टप्रत्यक्षरू|पमेतदुपपद्यत इति निरस्तम् । एतत्सदृशः स इत्यादौ तदभावात्, स्मृत्यनुनवसंकलनक्रमस्यानुभविकत्वाच्चेति दिकू । अत्राह जाट्टः नन्वेकत्वज्ञानं प्रत्यनिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव । गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमा| नत्वात् । तदुक्तम् - " तस्माद्यत्स्मर्यते तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १॥ प्रत्यदे|णावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥२॥” इति, तन्न, दृष्टस्य सादृश्य विशिष्टपिंकस्य, स्मृतस्य च गोः, संकलनात्मकस्य गोसदृशो गवय इति ज्ञानस्य, प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा गोविसदृशो | महिष इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके प्रमाणसंख्याव्याघातप्रसंगात् । एतेन गोसदृशो गवय इत्यतिदेशवाक्या
परिभाषा.
॥ ११९ ॥