________________
जैनतर्क
परिजापा.
चनमव्यक्तसामान्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिरिति, तदसत्, यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्यात् ? पश्चाघा ? स एव वा ? नाद्यः अर्थव्यञ्जनसंबंधं विना तदयोगात् । न मितीयः व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात। न तृतीयः व्यञ्जनावग्रहस्यैव नामान्तरकरणात्। तस्य चार्थशून्यत्वेनालोचनानुपपत्तेः। किं चालोचनेनेहां विना कटित्येवार्थावग्रहः कथं जन्यतां।युगपञ्चेहावग्रहौ पृथगसंख्येयसमयमानौ कथं घटेतामिति विचारणीयम्।नन्ववग्रहेऽपि क्षिप्रेतरादिल्लेदप्रदर्शनादसंख्यसमयमानत्वं विशेषविषयत्वं चाविरुधमिति चेन्न,तत्त्वतस्तेषामपाय
दत्वात्,कारणे कार्योपचारमाश्रित्यावग्रहनेदत्वप्रतिपादनात्, अविशेषविषये विशेष विषयत्वस्यावास्तवत्वात्। अथवाऽवग्रहो विविधो नैश्चयिको व्यावहारिकश्चााद्यः सामान्यमात्रग्राही,दितीयश्च विशेषविषयः,तउत्तरमुत्तरोत्तरधर्माकांक्षारूपेहाप्रवृत्तेः, अन्यथाऽवग्रहं विनेहानुत्थानप्रसंगादत्रैव विप्रेतरादिलेदसंगतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति अष्टव्यम् । अवग्रहीतविशेषाकांक्षणमीहा। व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत् । यथा श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन जवितव्यं । मधुरत्वादिधर्मयुक्तत्वाबांखादिना वेति । न चेयं संशय एव, तस्यैकत्र धर्मिणि विरुधनानार्थज्ञानरूपत्वात् , अस्याश्च निश्चयानिमुखत्वेन विलक्षणत्वात् ॥ इहितस्य विशेषनिर्णयोऽवायः । यथा शब्द एवायं शांख एवायमिति वा । स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधाऽविच्युतिः स्मृतिर्वासना च। तत्रैकार्थोपयोगसातत्यानिवृत्तिरविच्युतिः, तस्यैवार्थोपयोगस्य कालान्तरे तदेवेत्युलेखेन समुन्मीलनं स्मृतिः, अपायाहितः स्मृतिहेतुः संस्कारो वासना । योरवग्रहयोरवग्रहत्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विजागव्याघातः । केचित्त्वपनयन
॥११६॥