SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ लेखराहित्याजावादिति चेन्न, शब्द इति वक्त्रैव जणनात् रूपरसादिविशेषब्यावृत्त्यनवधारणपरत्वाचा । यदि च शब्दोऽयमित्यध्यवसायोऽवग्रहे नवेत्तदा शब्दोल्लेखस्यान्तमुहूर्तिकत्वादविग्रहस्यैकसामायिकत्वं नज्येत । स्यान्मतं शब्दोऽयमिति सामान्य विशेषग्रहणमप्यर्थावग्रह इष्यतां, तमुत्तरं प्रायो माधुर्यादयः शंखशब्दधर्मा इह, न तु शार्ङ्गधर्माः खरकर्कशत्वादय इतीहोत्पत्तेरिति, मैवम्, अशब्दव्यावृत्त्या विशेषप्रतिजासेनास्यापायत्वात्। स्तोकग्रहणस्योत्तरजेदापेक्ष्याऽव्यवस्थितत्वात् । किं च शब्दोऽयमिति ज्ञानं शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नं । सा च नागृहीतेऽर्थे संनवतीति तद्ब्रहणं अस्मदन्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम् । स च व्यंजनावग्रहकालोऽर्थपरिशून्य इति यत्किंचिदेतत् । नन्वनन्तरं क एष शब्द इति शब्दत्वावान्तरधर्मविषयकहानिर्देशानुब्दोऽयमित्याकार एवावग्रहोऽन्युपेय इति चेन्न, शब्दः शब्द इति नाषकेणैव जणनात् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात् । अव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चास्य तन्मात्रविषयत्वात् । यदि च व्यञ्जनाग्रह एवाव्यक्तशब्दग्रहणमिष्येत, तदा सोऽप्यर्थावग्रहः स्यात् अर्थस्य ग्रहणात् । केचित्तु संकेतादिविकट्पविकलस्य जातमात्रस्य वालस्य सामान्यग्रहणं । परिचितविषयस्य वाद्यसमय एव विशेषज्ञानमित्येतदपेक्ष्या तेन शब्दश्त्यवगृहीत इति नानुपपन्नमित्याहुः। तन्न,एवं हि व्यक्ततरस्य व्यक्तशब्दझानमतिक्रम्यापि सुबहुविशेषग्रहप्रसंगात् । न चेष्टापत्तिर्न पुनर्जानाति क एष शब्द इति सूत्रावयवस्याविशेषेणोक्तत्वात् । प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च । अन्ये त्वालोचनपूर्वकमर्थावग्रहमाचक्ते, तत्रालो१ राहिल्यादिति। * व्यावृत्त्यवधारणपरत्वाद्वा ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy