________________
जैनतर्क
। परिलाषा.
॥११५॥
रित्वसिद्धिः। ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा कथं प्रसुप्तस्य मेर्वादौ गत मे मन इति प्रत्ययः ? इति चेन्न, मेर्वादौ शरीरस्येव मनसो गमनस्वप्नस्यासत्यत्वात्, अन्यथा विबुधस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघातप्रसंगात् । ननु स्वामानुजूतजिनस्नात्रदर्शनसमीहितार्थालानयोरनुग्रहोपघातौ विबुधस्य सतो दृश्यते एवेति चेदृश्येतां स्वप्न विज्ञानकृतौ तौ । स्वमविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्ये-|| तेति ब्रूमः । क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत्तत्तीव्राध्यवसायकृतं, न तु कामिनीनिधुवनक्रियाकृतमिति को दोषः ? ननु स्त्यानधिनिघोदये गीतादिकं शृण्वतो व्यञ्जनावग्रहो मनसोऽपि जवतीति चेन्न, तदा स्वप्नान्निमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः । ननु च्यवमानो न जानातीत्यादिवचनात् सर्वस्यापि उद्मस्थोपयोगस्यासंख्ययसमयमानत्वात्प्रतिसमयं च मनोव्याणां ग्रहणाविषयमसंप्राप्तस्यापि मनसो देहादनिर्गतस्य तस्य च स्वसन्निहितहृदयादिचिन्तनवेलायां कथं व्यञ्जनावग्रहो न नवतीति चेत्, शृणु, ग्रहणं हि मनो, न तु ग्राह्यं । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो जवतीति न मनोव्यग्रहणे तदवकाशः। सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाशः। बाह्यापेक्ष्यैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात् । योपशमपाटवेन मनसः प्रथममर्थानुपलब्धिकालासंनवाघा । श्रोत्रादीन्जियव्यापारकालेपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवान्युपगमात् । मनुतेऽर्थान् मन्यन्तेऽर्था अनेनेति वा मन इति मनःशब्दस्यान्वर्थत्वादर्थनाषणं विना नाषाया श्वार्थमननं विना मनसोऽप्रवृत्तेः। तदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् । स्वरूपनामजातिक्रियागुणव्यकट्पनारहितं सामान्यग्रहणमर्थावग्रहः कथं तर्हि तेन शब्द इत्यवगृहीत इति सूत्रार्थस्तत्र शब्दाद्यु