________________
| दिचिन्नः किं न तश्रेष्यते ॥ ए ॥ श्रतिप्रसंगो नैवं चानिप्रायाकारयोगतः । यच्छ्रुतोक्तमनुल्लंघ्य स्थापना नाम चान्यतः ॥ ए८ ॥ अत एव न धीरर्हत्प्रतिमायामिवार्हतः । जावसाधोः स्थापना या प्रव्यलिंगिनि कीर्तिता ॥ एए ॥ सा हि स्थाप्या स्मृतिधारा जावादर विधायिनी । न चोत्कटतरे दोषे स्थाप्यस्थापकजावना ॥ १०० ॥ यघा प्रतिष्ठाविधिना स्वात्मन्येव परात्मनः ॥ स्थापना स्यात् समापत्तिर्विवे सा चोपचारतः ॥ १०१ ॥ प्रतिष्ठितप्रत्यनिज्ञासमापन्नपरात्मनः । आहार्यारो पतः स्याच्च प्रष्टृणामपि धर्मः ॥ १०२ ॥ तत्कारणेला जनकज्ञानगोचरबोधकाः । विधयोप्युपयुज्यन्ते तेनेदं दुर्मतं हतम् | ॥ १०३ ॥ प्रतिष्ठाद्यनपेक्षायां शाश्वतप्रतिमार्चने । अशाश्वताचपूजायां को विधिः किं निषेधनम् ॥ १०४ ॥ पूजादिवि
निक्षेपलक्षणः परिणामित्वभिन्न एव द्रष्टव्यस्तदा स्थापनाया अपि स्वाम्यादिभिन्नः संबन्धः ॥ ९७ ॥ एवमुक्तासंकरप्रकारेण चातिप्रसंगो न भवति, यच्च्छ्रुतोक्तं सिद्धान्तवचनमनुध्याक्षादी एवाभिप्रायसंबन्धं प्रतिमादौ चाकारसंबन्धं पुरस्कृल स्थापनाद्रियतेऽन्यतोऽन्यस्थले च नामनिक्षेप इति ॥ ९८ ॥ अत एवात्प्रतिमाया महतो धीरिव द्रव्यलिंगिनि प्रकटप्रतिषेविण पार्श्वस्थादौ स्थापना भावसाधोधः सिद्धान्ते न कीर्तिता ।। ९९ ।। सा स्थापनाधीः ।। १०० ।। यद्वा पक्षान्तरे प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनः परमत्रिभुवनभर्तुर्थ्यानरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सा प्रतिष्ठा, बिंबे चोपचारतः ॥ १०१ स्थापना प्रतिष्ठित प्रतिज्ञया समापन्नो यः परमात्मा भगवांस्तस्याहार्यांरोपतो द्रष्टृणामुपलक्षणाद्वन्दकानां पूजकानां च धर्मभूर्धर्मकारणं भवति ॥ १०२ ॥ तस्याहार्यारोपस्य कारणं या इच्छा | तज्जनकं यत्प्रतिष्ठितप्रतिमाभगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानं तगोचरीभूताः प्रतिष्ठाया बोधका इष्टसाधनत्वबोधनादिद्वारा तदुत्पतिहेतव इति यावत् विधयो विधिवाक्यान्यप्युपयुज्यन्ते फलवन्तो भवन्ति तेनेदं वक्ष्यमाणं दुर्मतमाध्यात्मिकाभासानां हृतं निराकृतम् ॥ १०३ ॥ किं तदित्याह शाश्वत इति स्पष्टं प्रतिष्ठितप्र तिमां पूजयेदिति विधिरप्रतिष्टितां न पूजयेदिति निषेधनं च किं विधिनिषेधार्थान्वयस्यायोग्यत्वादिति ॥ १०४ ॥ कथं निरस्तं तदाह--पूजादिविधयः प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा ज्ञानविधेः प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाप्यरोपयेदित्लंगवाक्यात्मकस्यांगिलं प्रधानत्वमाधिताः शाश्वताशाश्वताच विभेदेनभिन्नरूपेण व्यवस्थिता विधिविषयनिर्वाहवं अशाश्वतप्रतिमास्थले अन्यत्र वनादिप्रतिष्ठित प्रत्यभिज्ञाया एव तथावं, तादृशशिष्टाचारेण तथैव विधिबोधनादिति