________________
वा धर्म इत्यादिनिर्णयः ॥ एए ॥ जीवे स्कन्धेऽप्यनन्ते नोशब्दादेशावधारणम् । इति शब्दनयं प्राह समासध्यशुद्धिमान् ॥ ६० ॥ ब्रूते समनिरूढस्तु दातेरत्र सप्तमीम् । देशप्रदेश निर्मुक्तमेवं नूतस्य वस्तु सत् ॥ ६१ ॥ प्रस्थकार्य व्रजामीति वने गवन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगमव्यवहारयोः ॥ ५२ ॥ अत्र प्रस्थशब्देन क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति पचारोऽपि च स्फुटः ॥ ६३ ॥ बिनभि प्रस्थकं तदणोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनूपचाराः शुद्धतानृतः ॥ ६५ ॥ तमेतावति शुद्धौतूकी नामानमाहतुः । चितं मितं तथा मेयारूढमेवाह संग्रहः ॥ ६५ ॥ प्रस्थकश्चर्जुसूत्रस्य मानं मेयमिति प्रयम् । न कर्तृगतानावादानां सोऽतिरिच्यते ॥ ६६ ॥ लोके च तिर्यग्लोके च जंबूदीपे च जारते । क्षेत्रे तदक्षिणा च पाटलीपुत्रपत्तने ॥ ६७ ॥ गृहेच वसतिः कोणे नैगमव्यवहारयोः । अतिशुद्ध तु निवसन् वसतीत्याहतुः स्म तौ ॥ ६८ ॥ तदर्थस्तत्र तत्कालावचिन्ना तस्य वृत्तिता । वसत्यद्य न सोडत्रेति व्यवहारीचिती आकाशास्तिकायथ ज्ञेयौ ।। ५९ ॥ अपिश्चार्थः, जीवे स्कन्धे व अनन्ते नोव्दादशावधारणं कर्तव्यं, जीवे जीव इति वा प्रदेशो नोजीवः स्कन्ध इति वा प्रदेशो नोस्कन्ध इति ॥ ६० ॥ समभिन्नयस्तु धर्मे प्रदेश इत्यादि सप्तमीसमासं वृते । अत्र कुंडे जलवद्भेदे सप्तमी, घटे घटस्वरूपं इत्यादी क्वचिदभेदे सप्तमी । एवंभूत नयस्य मते देशप्रदेश निर्मुक्त देशप्रदेशकल्पनारहितमखंडमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्येव प्रदेश इत्यर्थः ॥ ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥ एतावति शुद्धौ नैगमव्यवहारनयौ तं प्रस्थकं प्रस्थकपर्यायवन्तमाहतुः । संग्रहनयस्तु चितमासादितप्रस्थकपर्याय मितमाकुट्टितनामानं मेयं धान्यविशेषमारूढं च प्रस्थकमाह ॥ ६५ ॥ ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव तत्परिच्छेदासंभवान्मेवारुढ प्रस्थकः प्रस्थकत्वेन व्यपदिश्यत इति शब्दानां शब्दसम भिरुदैवंभूतानां त्रयाणां नयानां मते स प्रस्थको कर्तृगताद्भावान्नातिरिच्यते न भिद्यते ज्ञः कर्ता च ज्ञकर्तारी, इकत्रोंगतो ज्ञकर्तृगतस्तस्मादिति समासः, प्रस्थकाकारज्ञगतात्प्रस्थककर्तृगताद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहते इति प्रस्थकदृष्टान्तः ॥ ६६ ॥ अथ वसतिदृष्टान्तः कुत्र भवान् वसतीति पृष्टे ॥ ६७ ॥ ६८ ॥ तदथों वसन् वसतीत्यस्यार्थः, तत्र पाटलीपुरे तस्य देवदत्तस्य वर्तमान कालावच्छिन्नवृत्तिनालक्षणयार्थः कर्तव्यः पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते