________________
नयो
॥ १०८ ॥
तु निश्चयात् ॥ ५० ॥ धात्वर्थे जावनिक्षेपात् परोक्तं न च युक्तिमत् । प्रसिद्धार्थोपरोधेन यन्नयान्तरमार्गणा ॥ ५१ ॥ शैलेश्यन्त्यक्ष धर्मो यथा सिद्धस्तथाऽसुमान् । वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा ॥ ५२ ॥ उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः । ते प्रदेशप्रस्थकयोर्वसतेश्च निदर्शनात् ॥ ९३ ॥ तथा हि-धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः । तदेशस्य प्रदेशश्चेत्याह षमां तमुच्चकैः ॥ ९४ ॥ दासेन मे खरः क्रीतो दासो मम खरोऽपि मे । इति स्वदेशस्वाने| दात् पंचानामाह संग्रहः ॥ २९॥ व्यवहारस्तु पंचानां साधारण्यं न वित्तवत् । इति पंचविधो वाच्यः प्रदेश इति मन्यते ॥ ९६ ॥ पंचप्रकारः प्रत्येकं पंचविंशतिधा जवेत् । प्रत्येकवृत्तौ प्राकृपक्षः स्यानेदेष्विव वाजिनाम् ॥ ९७ ॥ प्रत्येकवृत्तिः साकांक्षा बहुत्वेनेति सोऽप्यसन् । जुसूत्रस्ततो व्रते प्रदेशजजनीयताम् ॥ २० ॥ नजनाया विकल्पत्वाद्व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो संसारिणो य " इत्यादि ? तदुपर्याह-यज्जीवत्वं क्वचिद्रन्थे द्रव्यप्राणानां भावप्राणानां चान्वयादेकीकरणात् स्मृतं संसारिसिद्धसाधारणमिति शेषः तद्विचित्रो विविधावस्थो | यो नैगमस्तस्याभिप्रायाज्ज्ञेयम् ॥ ५० ॥ धात्वर्थे जीवत्यर्थे भावप्राणारोपणात् परोक्तं निश्चयतः सिद्ध एव जीव इति दिगंबरोक्तं नैव युक्तिमत् ॥ ५१ ॥ यथा शैलेशीचरमसमये निश्चयतो धर्मस्तस्मादर्वाग्व्यवहारतो धर्मः, तथाऽसुमान् जीवोऽपि निश्वयतः सिद्ध एव भविष्यति इत्यपि न वाच्यं । यतो धारयति सिद्धिगतावात्मानमिति धर्म इति फले फलरूपे धात्वर्थे चिन्ता ॥ ५२ ॥ ये शुद्धाशुद्धी स्तः सुधीः पंडितस्ते शुद्धशुद्धी वदेत् प्रदेश प्रस्थकवसतिष्टान्तैः ॥ ५३ ॥ नैगमो नयो धर्मास्तिकायादिस्कन्धानां तद्देशस्य प्रदेश इति पण्णां तं प्रदेशमुचकैः स्वमतनिर्बन्धेनाह ॥ ५४ ॥ संग्रहनयस्तु स्वदेशे धर्मास्तिकायादिदेशे स्वाभेदाद्धर्मास्तिकायाद्यभेदात् पंचानां प्रदेशमाह यथा संग्रहस्यान्वर्थत्वं क्रयजन्यं दासनिष्टं खरस्वामित्वम् ॥ ५५ ॥ व्यवहारनयस्तु इति मन्यते यथा पंचानां वित्ते द्रव्ये साधारणं स्वामित्वं तथा प्रदेशे न साधारणं पंचवृत्तित्वं पंचानां प्रदेश इति न वाच्यं, किं तु पंचविधः प्रदेश इति वाच्यम् ॥ ५६ ॥ पंचप्रकारः पंचविधः प्रदेशः, यदि च गेहेषु शतमश्वा इत्यत्रेव प्रत्येक वृत्तित्वान्वयः प्रकृते स्वीक्रियते तदा प्राक् पक्षः पंचानां प्रदेश इति संग्रहनयपक्ष एवं परिष्कृतः ॥ ५७ ॥ ५८ ॥ व्यवहारनयः प्राह धर्मे धर्मास्तिकाये यः प्रदेशः स धर्मे धर्मास्तिकाय इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णय: कर्तव्यः एवमधर्मास्तिकाय
पदेशः
॥ १०८ ॥