________________
नयरहस्य
प्रकर
एम्.
॥
३॥
कर्यात् । श्राह अतिरिक्तसामान्यविशेषानन्युपगमे कथमनुवृत्तिव्यावृत्तिबुद्धी,नहि ते अहेतुके, न वैकहेतूनवे, न वा निर्विषय एव दोषजे इति मैवम्, वस्तुत एव मृदादितुट्यपरिणामेनानुवृत्तिबुधेरूलताद्यतुट्यपरिणामेन च व्यावृत्तिबुझेरुपपत्तेरतिरितकटपने मानाजावात् । तमुक्तम्-" वस्तुत एव समानः, परिणामोऽयं स एव सामान्यम् । असमानस्तु विशेषो, वस्त्वेकमनेकरूपं तु"॥१॥इति । अतिरिक्तं तु सामान्य व्यक्तिष्वेकदेशेन समवेयात, कात्स्न्येन वा । आद्ये सावयवत्वप्रसंगः, अन्त्ये च प्रतिव्यक्ति नानात्वापत्तिः। न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव, देशकात्य॑योस्त्वनुपगमादनुक्तोपालंज इति वाच्यम्, नक्तान्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात, अत्रान्यतरप्रकाराश्रयणेऽन्यतरदोषापत्तेर्वज्रलेपत्वादिति संमतिटीकाकृतामजिप्रायः । प्रतिव्यक्तिपर्यायत्वे प्रतिव्यक्ति परिसमाप्त्यापत्तिः, अन्यथा तु चित्वादितुल्यतापत्तिरिति न्यायालोके समर्थितमस्माभिः। समानपरिणामरूपसामान्यान्युपगमेऽपि प्रतिविशेष तदन्यत्वाहिशेषादविशेष इति चेन्न, स्वजावदेन तहिशेषात् , अत एव समानत्वं सामान्यगर्नम्, तच्च तहे धुम्रहमिति परास्तम् । तथाप्यनुवृत्तिधीजननस्व-| जावपरिणामत्वेनानुवृत्तिधीजनकतात्माश्रयादिति चेन्न, वस्तुनस्तत्स्वनावस्य मृत्सरिमाणत्वादिना जनकत्वेऽदोषात्, जनक|ताया अपि परिणामरूपत्वेन नानात्वस्य दोषानावहत्वादेकत्वसंजवेन कार्यानुमानानुच्छेदादिति दिक् । अविषय एवायं - सामान्याकार इत्यपि न युक्तम्, बीजाजावात् । अनादिवासनादोषो बीजमिति चेन्न, वासनाया बोधरूपत्वे समनन्तरझानेपि तत्प्रसंगात् । विशिष्टबोधरूपत्वेन च किं वैशिष्टयमिति वाच्यम्, अनादिहेतुपरंपराजन्यत्वमिति चेन्न, तत्रापि तन्मात्राविशेषात्, समुशोर्मिकपनाया अपि चित्रहेतुस्वजावांगीकारं विना वक्तुमशक्यत्वादिति विवेचितमन्यत्र । विशे
॥
३॥