________________
किंचिदूनपूर्वको टिपर्यतं कथं तदजावे स्थातुं शक्यत इति विवदंति विवक्षाविचक्षणाः तदपि न नश्चेतसि समायाति । यतो यदि समग्रसामग्री सनावेऽपि सप्तमगुणस्थाने स्तोककालत्यविक्रया कवलाहाराजावः कयते तर्हि समानत्वात् पष्ठेऽपि गुणस्थाने तदजाव आपतितः । न च तत्र प्रमत्तत्वादाहारः सुसाधः घटकुटी न्यायेनास्मत्सिद्धान्तस्यैव श्रयणीयत्वापत्तेरिति पूर्वपदः । एवं प्राप्तेऽनिधीयते । यत्तावत्केवलिनां कवलाहारसाधकस्यानुमानस्यानैकांतिकत्वमुनावितं | तन्मन्दं प्रधानध्यानविरहसहकृतत्वस्य हेतोर्विशेषणात् । न चाहारसंज्ञारूपकारणाजावादेव सप्तमगुणस्थाने कवलाहाराचाव इति सयोगिकेवलिगुणस्थानेऽपि तदद्भावोऽन्युपगम्यतामन्यथाहारसंज्ञापि प्रतिपद्यतामिति वाच्यम् । एतस्य मनोरथमात्रत्वात् तथाहि श्राहारसंज्ञा किमाहारमात्रं प्रति कारणं कवलाहारमात्रं प्रति वा । नाद्यः केवलिनां लोमाहारस्याप्य| जावापत्तेः । द्वितीयेऽपि करवाहारमात्रं प्रति आहारसंज्ञायाः कारणता किमन्वयव्यतिरेकगम्या विधिगस्या वा । नायः यत्राहारसंज्ञा तत्र कवलाहार इत्यन्वयव्याध्यसि । "दस ना सवजीवाएं" तिवचनादे केन्द्रियादिव्वाहारसंज्ञायाः सत्वेऽपि कवखाहाराजावात् । नापि द्वितीयः तयाविधविधेरजावात् तस्मादाहारसंज्ञाया आहारा जिल्लामा प्रत्ये कारणत्वम् । न चानिलापः खलु प्रार्थना सा च यदीदमहं प्राप्नोमि तदा जन्यमित्याद्यकानुविधा । तथा चैकेन्द्रियादिषु अक्षरज्ञानाजावेन व्याध्यसिद्धिः । तेषामप्यव्यक्त्ताक्षरवानत्यानुज्ञातत्वात् । तथा चागम:-- "सजीकापियां अरकरस्स तो जागो निच्दुग्वामि विघ्इ सोविअ जड़ आवरेा तेलं जीवो अजीवत्तां पावेका" इति नंदीसूत्रे ।।
१ संज्ञायतेऽभिलष्यत आहारादिकमनया सा संज्ञा.