________________
परीक्षा.
अध्यात्मिसमीहितम् न केवलिनामनपायं वेदनीयादि कारणिकस्य कवलाहारस्य सिद्धत्वात् । न हितीयः गत्यादीनामप्युच्छेदापत्तेः।।
तथा च यथा गत्यादिकर्मजनितं गत्यादिकं केवलिन्यन्युपगन्तव्यं तथा वेदनीयादिकारणिका नुक्तिरपि प्रतिपद्यतामिति कवलाहारस्य मोहकार्यतानिराकरणस्थलम् । अथ ध्यानविघ्नलक्षणकार्यविरोधं निराकरोति-न चेति । शुक्लध्यानं तावचतुष्पादम् । तथाहि । पृथक्त्ववितर्क सवीचारम् १ अपृथक्त्ववितर्कमवीचारम् २ सूक्ष्म क्रियमनिवृत्ति ३ समुबिन्नक्रियमप्रतिपाति ।। तबदणानि चामूनि-"सवितर्क सवीचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिमलम् ॥ १॥ श्रुतचिंता वितर्कः स्याधीचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं नवत्येतत्रयात्मकम् ॥२॥ स्वशुधात्मानुजूत्यात्मनावश्रुतावलंबनात् । अन्तर्जटपो वितर्कः स्याद्यस्मिंस्तत् सवितर्कजम् ॥ ३ ॥ अर्थादर्थान्तरे शब्दाचब्दान्तरे च संक्रमः। योगाद्योगान्तरे यत्र सवीचारं तमुच्यते ॥ ४ ॥ व्याव्यान्तरं याति गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं सपृथक्त्वं नवत्यतः॥५॥ अपृथक्त्वमवीचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन शुक्लध्यानं वितीयकम् ॥६॥ निजात्मव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिंत्यते यत्र तदेकत्वं विव॒धाः॥ ७॥ यध्वंजनार्थयोगेषु परावर्त विवर्जितम् । चिंतनं तदवीचारं स्मृतं सद्ध्यानकोविदः ॥७॥ आत्मस्पन्दात्मिका सूक्ष्मा क्रिया यत्रानिवृत्तिका । तत्तृतीयं नवेनुक्लं सूदमक्रियानिवृत्तिकम् ॥ ए॥ बादरे काययोगेऽस्मिन् स्थितिं कृत्वा स्वनावतः । सूक्ष्मीकरोति वा चित्तयोगयुग्मं सबादरम् ॥ १०॥ त्यक्त्वा स्थूलं वपुर्योगं सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं काययोगं तु बादरम् ॥ ११॥ सुसूक्ष्मकाययोगेऽथ स्थितिं कृत्वा पुनः कृणम् । निग्रहं कुरुते सद्यः सूक्ष्मवाचित्तयोगयोः ।
॥६० ॥