________________
विचाराः
IUCII
विचार
पुनरपि केवलिशरीराज्जीवविराधना जायमाना न विरुद्धा, इत्यक्षराणि लिख्यन्ते-न च वाच्यमिमानि छद्मस्थमाश्रित्यावसेयानि, | भगवतीरत्नाकरः
सप्तमशते संवृतोद्देशकेऽतिदिष्टत्वात् । तत्र च उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानकायवर्त्तिवीतरागोऽपि सक्रियत्वात्सातवेद्यं कर्म बनाति, इत्यादिना स्पष्टमेव केवलिनो गृहीतत्वात् । तच्च सर्वमत्रापि ग्राह्यमेव अतिदिष्टत्वात्, गुणस्थानकविशेषाकथनेन ऐर्यापथिकक्रियावतः केवलिनोऽप्यत्र सुखेनायातत्वाच्च, न च जानन्नपि केवली कथं तानाक्रामतीत्यादिमुग्धजनप्रतारकवचोभिश्चातुरी विडंबनीया, अवश्य भाविभावस्य केवलिभिरशक्यप्रतीकारत्वमित्याधुक्तत्वादेव, स्वयमपि केवलीनो नद्युत्तरणादेः स्वीकृतत्वाच्च । सृतमनेन कदाग्रहेण तान्यक्षराणि चेमानि
“ रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरतो दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कज्जइ नो संपराइया किरिया कज्जइ । से केणद्वेणं भंते ! एवं वुच्चइ जहा सत्तमसते संवुडुद्देसए जाव अट्ठो निक्खित्तो । सेवं भंते २ जाव विहरइ ” इति । वृत्तिर्यथासप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्बन्धो निरूप्यते-इत्येवं संबन्धस्यास्येदमादिसूत्रम्- 'रायगिहे' इत्यादि 'पुरओ' ति अग्रतः । '
दुहओ' त्ति द्विधाऽन्तरा, पार्श्वतः पृष्ठतश्चेत्यर्थः । 'जुगमायाए' त्ति यूपमात्रया दृष्ट्या 'पेहाए' ति प्रेक्ष्य २ 'रीयं' ति गतं-गमनं ' || रीयमाणस्स' त्ति कुर्वत इत्यर्थः । कुक्कुडपोए' त्ति कुक्कुटडिम्भः । ' वट्टापोए' त्ति इह वर्तकः-पक्षिविशेषः 'कुलिंगच्छाए व'
त्ति पिपीलिकादिसदृशः ' परियावज्जेज्ज' त्ति पर्यापद्येत-प्रियेत । एवं जहा सत्तमसए' इत्यादि अनेन च यत्सूचितं तस्यार्थलेश एवं| अथ केनार्थेन भदन्तैवमुच्यते-गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवतीत्यादि । 'जाव अट्ठो निक्खित्तो' त्ति । | ‘से केणगुणं भंते !' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः । तच्च-'से तेणद्वेणं गोयमा !' इत्यादि । इति भगवत्यष्टादशशतकाष्टमोद्देशके ८०६ प्रतौ ४९६ पत्रे ॥ १५ ॥
अन्यत्र तु आर्द्रामलकप्रमाणं पृथ्वीकायपिण्डश्चक्रिचन्दनपेषिकापिष्टोऽचित्तो न भवतीति श्रूयते । अत्र तु जतुगोलकप्रमाण इति
हाए 'तिप्रेस
यहापोए
प्रयत
||७८॥