________________
विचार- Jee| आश्रयमात्रत्वान्नरभवनानामिव । अथेदं गृहमनेन प्रस्तमिति दृष्टस्तद्व्यवहारः ? सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा । रत्नाकरः
आच्छादक भावेन च ग्रासविवक्षायामिहापि न विरोधः इति । अथ यदत्र सम्यक् तदर्शयितुमाह-'अहं पुणे' त्यादि खंजणवन्नाभे' त्ति खञ्जनं दीपमल्लिकामलस्तस्य यो वर्णः तद्वदाभा यस्य तत्तथा । 'लाउयवन्नाभे' त्ति 'लाउयं' ति' तुंबकं तच्चेहापक्कावस्थं ग्राह्यमिति । 'भासरासिवन्नाभे' त्ति भस्मराशीवर्णाभम् । ततश्च किमित्याह-'जया ण' मित्यादि ' आगच्छमाणे व' त्ति गत्वा अतिचारेण ततः ॐ
प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे व' त्ति स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता। ||७५||
'विउव्वमाणे व' त्ति विकुर्वणां कुर्वन्, ' परियारेमाणे व' त्ति परिचारयन्-कामक्रीडां कुर्वन्, एतस्मिन् द्वये अतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानसमज्जसं चलयति, एतच्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति । 'चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं' ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृतत्वाच्चन्द्रलेश्यां पुरस्तादावृत्य ' पच्चच्छिमेणं वीईवयइ' त्ति चन्द्रापेक्षयाऽपरेण यातीत्यर्थः । पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहु ' त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया णं' इत्यादि 'आवरेमाणे' इत्यत्र द्विवचनं तिष्ठतीति क्रियाविशेषणत्वात् । 'चंदेणं राहुस्स कुच्छी भिन्ना' त्ति राहोरंशस्य मध्येन चन्द्रो गतः इति वाच्ये चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति । 'पच्चोसक्कइ' त्ति प्रत्यवसर्पति व्यावर्त्तते । 'वंते' त्ति वान्त:-परित्यक्तः । सपक्खि सपडिदिसिं' ति सपक्षसमानदिक् यथा भवति सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवंचन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः । अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणम् । इति श्रीभगवतीद्वादशशतकषष्ठोद्देशके ८० प्रतौ ३९५ । ३९६ पत्रे ॥ ११॥
केचिद्वदन्ति स्वल्पपरिमाणभूगोलं परितोऽरघट्टघटीन्यायेन भ्राम्यन्तौ सूर्याचन्द्रमसौ महत्परिमाणौ यथाक्रमं चारं चरतः, ततश्च सूर्यकान्तयः स्फटिकमये चन्द्रे प्रतिबिंबिता भवन्ति, ता एव च ज्योत्स्नाः, तथा च प्रतिपदि द्वितीयायां क्रमेण सन्मुखवृद्ध्याधिकमधिकं चन्द्रांशेषु सूर्यकान्तिप्रसारः, एवं च पौर्णमास्यां चारविशेषक्रमेणाधः सूर्य उपरि च चन्द्र एवं तिष्ठतः तेन च सकलोऽपि चन्द्रः सूर्यकान्तिव्याप्तो भवति एवं स्थितयोश्च तयोर्यावति प्रदेशे भूगोलस्तावति चन्द्रमध्यभागे सूर्यकान्तेरप्रसारोऽप्राप्तसूर्यकान्तित्वाच्च स श्याम
७५॥