________________
विचार-18| गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, ' अवंगुअदुवारे' त्ति अप्रावृतद्वारा: कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न रत्नाकरः कृतोऽपि पाखण्डिकादिभ्यो बिभ्यति शोभनमार्गपरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भावः इति वृद्धव्याख्या, अन्ये त्वाहु:- 9
भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः । ' चियत्तंतेउरघरप्पवेसा' 'चियत्तो' त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्ते इत्यर्थः अन्ये त्वाहुः-' चियत्तो' त्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः
शिष्टजनप्रवेशनं येषां ते तथा अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति । अथवा 'चियत्तो' ति त्यक्तोऽन्तःपुरगृहयोः 11६५|| परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा, 'बहूहिं' इत्यादि, शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयः,
प्रत्याख्यानानि पौरुष्यादीनि, पौषधं-पर्वदिनानुष्ठानंतत्रोपवासो-अवस्थानं पौषधोपवासः, एषां द्वन्द्वः अतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं ( तत् ) पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति, तद्दर्शयन्नाह ' चाउद्दसे' त्यादि, इहोद्दिष्टा-अमावास्या, 'पडिपुण्णं पोसह ' ति अहोरात्रादिभेदाच्चतुर्विधमपि सर्वतः, 'वत्थपडिग्गहकंबलपायपुच्छणेणं' ति इह पतद्गहः-पात्रं, पादप्रोज्छन-रजोहरणं, ' पीढे' त्यादि पीढ-आसन, फलक-अवष्टंभनफलकं, शय्या-वसतिवृहत्संस्तारको वा, संस्तारको-लघुतरः, एषां समाहारद्वन्द्वोऽतस्तेन, ' अहापरिग्गहिएहिं ' ति यथाप्रतिपन्नैर्न पुनसिं नीतैः । इति भगवतीद्वितीयशतकपञ्चमोद्देशके ८०६ प्रतौ ११३ पत्रे ॥ ४ ॥
श्री जिनप्रतिमारिपून् प्रति जिनप्रतिमाक्षराणि लिख्यन्ते -
“अस्थि णं भंते ! असुरकुमाराणं देवाणं उड्डे गइविसए ? हंता अस्थि । केवइयं च णं भंते ! असुरकुमाराणं देवाणं उड्डूं गतिविसए पण्णत्ते ? गोयमा ! जाव अच्चुए कप्पे, सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तिएणं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसिं देवाणं भवपच्चइए वेराणुबंधे, तेणं देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति, वित्तासेंतित्ता अहालहुस्सयाई रयणाइं गहाय आयाए एगंतमवक्कमंति । अस्थि णं भंते ! तेसिं देवाणं अहालहस्सगाई रयणाई ? हंता अस्थि । से कहमिदाणिं पकरेंति ? तओ से पच्छा कार्य पव्वहति । पभू णं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धि दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए ? णो तिणद्वे समढे, ते णं तओ पडिनियतंतिश्त्ता इहमागच्छंतिरत्ता
11६५||