________________
भगवतीविचाराः
रत्नाकरः
विचार- 8 ते तथा, 'आओगपओगसंपउत्ता' आयोगो-द्विगुणादिवृद्ध्यर्थप्रदानं, प्रयोगश्च-कलान्तरं तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा ।
विच्छड्डियविपुलभत्तपाणा' विच्छर्दितं-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसंभवात् विच्छर्दितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येसां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलकाउरभ्राः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे' इत्यादि, क्रियाः कायिक्यादिका: अधिकरणं
गन्त्रीयन्त्रकादि । 'कुसल' त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः । 'असहेज्जे ' त्यादि अविद्यमानं साहाय्यं-परसाहायकं, ||६४|| अत्यन्तसमर्थत्वाद्येषां ते असहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेन असहाय्या-आपद्यपि देवादिसाहायकानपेक्षाः
स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसहायकमपेक्षन्ते स्वयमेव तत्प्रतिघातसमर्थत्वात्, जिनशासनात्यन्तभावितत्वाच्चेति, तत्र देवा वैमानिकाः । 'असुर' त्ति असुरकुमारा: 'नाग' त्ति नागकुमारा: उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण' त्ति सद्वर्णा ज्योतिष्काः यक्षराक्षस किंनरकिंपुरुषा:-व्यन्तरविशेषाः 'गरूल' त्ति गरुडध्वजाः - सुवर्णाकुमारा:-भवनपतिविशेषा;, गन्धर्वा महोरगाश्च व्यन्तरविशेषाः 'अणतिक्कमणिज्ज'त्ति अनतिक्रमणीया अचालनीयाः, 'ल?' ति अर्थश्रवणात् 'गहिय?' ति अर्थावधारणात् 'पुच्छिय? ' त्ति सांशयिकार्थप्रश्नकरणात् ' अभिगहियट्ठ' त्ति प्रश्नितार्थस्याभिगमनात् — विणिच्छिय? 'त्ति ऐदंपर्यार्थस्योपलम्भात्, अत एव ' अद्विमिंजपेम्माणुरागरत्ता' अस्थीनि च कीकसानि, मिजा च तन्मध्यवर्तिधातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थिमिञासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन ? इत्याह-'अयमाउसे' इत्यादि, अयमिति प्राकृतत्वादिदं' आउसो' त्ति आयुष्मन् इति पुत्रादेरामंत्रणं 'सेसे' त्ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति ।' उसियफलिह' त्ति उच्छ्रितं-उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रितो-ऽर्गलास्थानादपनीयोर्धीकृतो न तिस्थीनः । कपाटपश्चाद्धागादपनीत इत्यर्थः परिघो-ऽर्गला येषां ते | उच्छ्रितपरिघाः । अथवा उच्छ्रितो-गृहद्वारादपगतः परिघो येषां ते उच्छ्रितपरिघाः । औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां
मानुरागेण-सर्वजन्मात्, अत एव प्रसाशयिकाप्रश्नका
IIE४||