________________
विचार
___ अथ क्रमप्राप्ताः श्री पञ्चमाङ्गविचाराः प्रस्तूयन्तेरत्नाकरः
केचिच्च लिखितं पुस्तकादिकं पादस्पर्शादिनाऽशातनाऽस्वीकारेणावगणयन्ति, तच्च तेषां संसारकारणम्, यतः श्री भगवतीमारभद्धिः श्रीगणधरपादैरपि नमस्कृतत्वेनास्य पूज्यतमत्वात् । तथा च सूत्रम्
“नमो बंभीए लिवीए” त्ति । लिपि:-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकारापि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया
दर्शिता ततो ब्राह्मीत्यभिधीयते । आह च-" लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेण" इत्यतो ब्राह्मीति स्वरूपविशेषणं लिपेरिति ||५९||
। नन्वधिकृतशास्त्रस्यैव मलत्वात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः ?, सत्यं, किं तु शिष्यमतिमङ्गलपरिग्रहार्थं मडलोपादानम् । इति श्रीभगवतीप्रथमशतकप्रथमोद्देशके ॥१॥
इह च केचनाविवेकिनः कदाग्रहग्रहीता वदन्ति-यदेते ये केचन सम्यग्दृष्टिव्यतिरिक्तास्तपस्यन्ति-मुक्त्यर्थमपि कायकष्टमनुतिष्ठन्ति तेन तेषामकामनिर्जरैव, न तु सकामा, तच्च विचार्यमाणमसारमाभासते, यतोऽकामानां-निर्जराधनभिलाषिणां सतां तृट् अकामतृट् इत्याद्यकामनिर्जरास्वरूपमुक्तम्, किंच अत्राकामनिर्जरावतां व्यन्तरेषूत्पत्तिरुक्ता, द्वितीयोद्देशके तु उत्पादाधिकारे तापसादीनां मिथ्यादृशामपि ज्योतिष्कब्रह्म (लोक) ग्रैवेयकादौ श्रूयते ततोऽवसीयते तेषां सकामैव, तथैव चाकामनिर्जरावतां मनोलब्धिरहितानामसंज्ञिना व्यन्तरेष्वेवोत्पत्तिः ततश्च सधर्माभिलाषिणां शुभानुष्ठायिनां सकामैव, अन्येषामकामेति तत्त्वम् । तत्र च अकामनिर्जरास्वरूपसूत्रं अकामनिर्जरावतां गतिप्रतिपादकं लिख्यते
“जे इमे जीवा गामागरणगरणिगमरायहाणिखेडकब्बडमंडपदोणमुहपट्टणासमसन्निवेसेसु अकामतण्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेअजल्लमलपंकपरिदाहेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसति । परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति त्ति ।" वृत्तिर्यथा-गामेत्यादि, ग्रामादिष्वधिकरणभूतेषु,
तत्र ग्रामो-जनपदप्रायजनाश्रितस्थानविशेषः, आकरो-लोहाद्युत्पत्तिस्थानं, नकर-कररहितं, निगमो-वणिग्जनप्रधानं स्थानं, राजधानी-यत्र lage| राजा स्वयं वसति, खेटं-धूलिप्राकार, कर्बट-कुनगरं, मडंब-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं- ael
||५९||