________________
विचार-
समवायाङ्ग विचाराः
11५८॥
जीवा आणाए आराहित्ता चाउरंतसंसारं वितिवइंसु । एवं पडुप्पन्नेवि अणागएवि । त्ति, वृत्तिर्यथा-सांप्रतं द्वादशाङ्गविराधनानिष्पन्नं
कालिकं फलमुपदर्शयन्नाह-'इच्चेइममित्यादि' इत्येतद्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य चतुरंतसंसारकान्तारं 'अणुपरियट्टिसु' ति अनुपरिवृतवन्तः । इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्चतुरन्तं संसारकान्तारंनरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् । अर्थाज्ञया पुनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणया गोष्टामाहिलादिवत् । उभयाज्ञया पुनः पंचविधाचारपरिज्ञान| करणोद्यतगुर्वादेशारन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्टानमेवाज्ञा तया तदकरणेनेत्यर्थः । ' इच्चेइय'मित्यादि गतार्थमेव, नवरं ' परित्ता जीवा' इति । संख्येया जीवा वर्तमानविशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् ' अणुपरियटृति' ति अनुपरावर्तन्ते भ्रमन्तीत्यर्थः 'इच्चेइय' मित्यादि इदमपि भावितार्थमेव नवरं 'अणुपरियट्टिस्संति' ति अनुपरावर्तिष्यन्ति-पर्यटिष्यन्तीत्यर्थः । 'इच्चेइयमित्यादि' कंढ्यं नवरं 'विईवइंसु' त्ति व्यतिव्रजितवन्तः-चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः । — विईवइंति ' त्ति,
व्यतिव्रजंति व्यतिक्रामन्तीत्यर्थः । अनागतेऽप्येवं, नवरं वीइवइस्संति' ति व्यतिव्रजिष्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः । इति समवाया३८५ ool प्रतौ ७० पत्रे ॥६॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयाऽपरनाम्नि समवायाङ्गविचारनामा चतुर्थस्तरङ्गः ॥ ४ ॥
त्रिजगत्प्रसरर्दुचिम॒दुर्नयनागोचरवस्तुशंसिनी । मम चित्तमलङ्करोतु सा जिनवाणी मणिदीपिकाधिका ॥ १ ॥
11५८॥