________________
विचार- 188 खण्डितानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः, प्रतिमा:- प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा, अभिग्रहग्रहणानि, रत्नाकरः॥ ॐ तेषामेव पालनानि, उपसर्गाधिसहनानि, निरुपसर्गं चोपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि, शीलव्रतादयोऽनन्तरोक्तरूपाः, अपश्चिमा:पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिकाः आत्मनः शरीरस्य जीवस्य च संलेखना:- तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयः तासां, ' झोसणं' ति जोषणाः सेवना: करणानीत्यर्थः ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानां यथा भावयित्वा बहूनि भक्तानि अनशनतया निर्भोजनतया छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते केषु ? कल्पवरेषु यानि विमानान्युत्तमानि तेषु । यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकणि यानि तेषु । कानि ? सौरव्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि तत आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधिं लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तमं प्रधानसंयमं तमोरजओघविप्रमुक्ता - अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्षंकर्मक्षयमित्यर्थः । तथोपासकदशासु आख्यायते इति प्रक्रमः । इति समवायाङ्गे संख्याक्रमसमाप्त्यनन्तरं ९५ प्रतौ ७० पत्रे ।। २ ।।
आधुनिकाः पण्डिम्मन्याः केचन ' इच्चेइयं दुवालसंगं' इत्यादिसूत्रं दर्शयन्तो जमालेरनन्तभवत्वं निश्चिनवते, अनेन च तेषामेतत्सूत्रतात्पर्यानवबोधो निश्चियते, तथा हि यद्यप्यत्र टिकायां चातुरन्तसंसारकान्तारभ्रमणे जमालिर्दृष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो न हि दृष्टान्तदन्तिकयोः सर्वात्मना तुल्यत्वम्, मुखमाह्लादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एव जमालिदृष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्रमणं च जमालेः पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मना जमालिर्दृष्टान्तस्तर्हि भगवत्या सह विरोध: संपनीपद्यते । यथा अत्र चातुरन्तसंसारकान्तारभ्रमणमुक्तं तत्र तु जमाले : ' चत्तारि पंच देवमणुयतिरिक्खजोणियभवग्रहणाई' 8 इत्यादिना गतित्रय एव पञ्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन, अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति । सूत्रं च यथा“ इच्चेइयं दुवालसंगं गणिपिडगं अतिते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिसु । इच्चेइयं दुवाल संग गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टंति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति । इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता
॥५७॥
ာ ာ ာ ာ ာာာာာာာာာာာာာာာာာာ
॥५७॥