________________
विचार
विचाराः
ति तत्क्षणमेवाकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं स चासौ पुष्पपल्लवसमाकुलश्च समवायाङ्ग रत्नाकरः इतिविग्रहः पल्लवा - अंकुरा: सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादश: ११ । ' ईसि 'त्ति ईषत्त- अल्पं 'पिट्ठओ ' त्ति पृष्ठतः पश्चाद्भागे ' मउडट्ठाणंमि त्ति मस्तकप्रदेशे तेजोमण्डलं प्रभापटलमिति द्वादशः १२ । बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३ । — अहोसिर 'त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ । ऋतवोऽविपरीताः कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदशः १५ । योजनं यावत्क्षेत्रशुद्धिः संवर्त्तकवातेनेति षोडशः १६ । ' जुत्तफुसिएण ' त्ति उचितबिन्दुनिपातेन ' निहयरयरेणुयं ' ति वातोत्खातमाकाशवर्त्तिरजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७ । जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्द्धमुखेन दशार्द्धवर्णेन पञ्चवर्णेन जानुनोरुत्सेधस्य - उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रपुष्योपचारःपुष्पप्रकर इत्यष्टादशः १८ । तथा ' कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे भवइ ' त्ति कालागुरुश्च गन्धद्रव्यविशेषः प्रवरकुदुरुक्कं च-चीडाभिधानं गन्धद्रव्यमिति तुरुष्कं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानोबहुलसौरभ्यो यो गन्ध उद्भुत उद्भूतस्तेनाभिरामं अतिरमणीयं यत्तत्तथा स्थानं-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९ । ' उभओ पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवं करेंति 'त्ति कटकानि-प्रकोष्टाभरणविशेषास्त्रुटितानिबाह्याभरणविशेषास्तैरतिबहुत्वेन स्तंभिताविव स्तंभितौ भुजौ ययोस्तौ तथा यक्षौ - देवाविति विंशतितमः २० । बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाभिधीयते तस्तस्यां पूर्वेष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षो अभाव इत्येकोनविंशतितम्: २१ । मनोज्ञानां प्रादुर्भाव इति विंशतितमः २० । — पच्चाहरओ' त्ति प्रत्याहरतो-व्याकुर्वतो भगवत: ' हिययगमणीओ ' त्ति हृदयङ्गमः ' जोयणनीहारी सरो' त्ति योजनातिक्रमी स्वर इत्यकविंशः २१ । ' अद्धमागहीए' त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या मित्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंश: २२ । भासिज्माणी 'ति भगवताऽभिधीयमाना ' आरियमणारियाणं ' आर्यानार्यदेशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा - गवादयः, मृगाआटव्याः, पशवो-ग्राम्याः, पक्षिणः प्रतीताः, सरीसृपा- उरः परिसर्पा भुजपरिसर्पाश्चेति तेषां किमात्मन आत्मन- आत्मीयया आत्मीययेत्यर्थः
॥५४॥
6
"
8488888888% •%%%%%%%%%%******
॥५४॥