________________
विचार- णं हिययगमणीओ जोअणनीहारी सरो २१, भगवं च णं अद्धमागधीए मासाए धम्ममाइक्खइ २२, सावि य णं अद्धमागधी भासा
भासिज्जमाणी तेसिं सव्वेसि आरियमणारियाणं दुपयचउप्पयपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहदा सभासत्ताए परिणमइ २३, पुव्वबद्धवेरा वि य णं देवासुरनागसुवन्नजक्खरक्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामेंति २४, अन्नउस्थियपावणीया वि य णं आगया वंदंति २५, आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६, जओ
जओ वि य णं अरहंतो भगवंतो विहरंति, तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २७, मारी न भवइ २८, सचक्कं न ||५३||
भवइ २९, परचक्कं न भवइ ३०, अइवुट्ठी न भवइ ३१, अणावुट्ठी न भवइ ३२, दुब्भिक्खं न भवइ ३३, पुबुप्पन्ना वि य णं | उप्पाइया वाही खिप्पामेव उवसमंति ३४, इति । वृत्तिर्यथा
अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते-'बुद्धाइसेसा' इति बुद्धानां-तीर्थकृतामतिशेषा-अतिशया बुद्धातिशयाः । अवस्थितंअवृद्धिस्वभावम् केशश्च-शिरोजाः श्मश्रूणि च-कुर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ । | निरामया-नीरोगा, निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीयः २ । गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ । तथा पद्मं च-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढम् उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तोगन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ । प्रच्छन्नमाहारनीहारं-अभ्यवहरणं मूत्रपुरीपोत्सर्गौ प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसेति पञ्चमः ५ । एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा-'आगासगयं' ति आकाशगतं-व्योमवर्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्र-धर्मचक्रमिति षष्ठः ६। एवं आकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७ । आकाशके-प्रकाशके श्वेतवरचामरे प्रकीर्णके इत्यर्थः इत्यष्टमः ८ । 'आगासफालियामय' ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ ।
'आगासगओ' त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः "कुडभि' त्ति लघुपताका: संभाव्यन्ते तत्सहस्रैः परिमण्डितश्चासावभिरामश्चअतिरमणीयः ॐ इति विग्रहः 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वजः इति विग्रहः इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' lal ति जिनस्याग्रतो गच्छतीति दशमः १० । ' चिट्ठति वा निसीयंति व' त्ति तिष्ठन्ति-गतिनिवृत्त्या निषीदन्तिउपविशन्ति — तक्खणा चेव'
५३।।