________________
विचाररत्नाकर
स्थानाङ्ग विचाराः
॥४६॥
तथा सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता तां वा । सह प्रायश्चित्तेन सप्रायश्चित्ता ताम् । भावना चेह-“ अहिगरणंमि कयंमि उ, खामेत्तुमुवट्ठियाए पच्छित्तं । तप्पढमयाभएणं, होइ किलं ताव वहमाणी ॥ १॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा । इह गाथा-" अटुं वा हेउं वा, समणीणं विरहए कहितस्स । मुच्छाए विवडियाए, कप्पइ गहणं परिण्णाए ॥१॥" तथा अर्थ:-कार्यमुत्प्रवाजनतः स्वकीयपरिणेत्रादेर्जातं यया सा अर्थजाता, पतिचौरादिना संयमाच्चाल्यमानेत्यर्थः तां वा । इह गाथा अन्नोवि जीए कज्जं संजायं एस अत्थजायो उ । तं पुण संजमभावा, चालिजंति समवलंबं ॥ १॥" ति इति स्थानाइपञ्चमस्थानकद्वितीयोद्देशके २४२ प्रतौ १५१ पत्रे ॥ १४ ॥ . केचिदशास्त्रज्ञाः प्रतिपादयन्ति, यथा यादृशस्तादृशो भवतु परं तीर्थङ्करासनोपविष्टत्वात्तीर्थङ्करतुल्यत्वाच्चाचार्यो न त्याज्यः । असत्प्ररूपणे तु तस्य संसारवृद्धिः, किमन्येषामित्यादि । तच्च कुमतिविनँभितं, कैश्चित् कारणैराचार्योपाध्यायस्यापि गणापक्रमणं भवतीत्युक्तत्वात् । तच्चेदम्
“पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावक्कमणे पण्णत्ते । तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवइ १ । आयरियउवज्झाए गणंसि अहारायणियाए किइकम्मं वेणइयं णो सम्मं पउंजित्ता भवइ २ । आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारिति ते काले काले नो सम्ममणुप्पवाएत्ता भवइ ३ । आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए वा निग्गंथीए बाहिल्लेसे भवइ ४ । मित्तणाइगणे वा से गणाओ अवक्कमेज्जा तेसिं संगहोवग्गहट्ठयाए गणावक्कमणे पन्नत्ते इति" वृत्तिर्यथा-' पंचहि इत्यादि' सुगमम् । नवरं आचार्योपाध्यायस्य आचार्योपाध्यायर्योर्वा गणात्-गच्छादपक्रमणं-निर्गमो गणापक्रमणम् । आचार्योपाध्याययोर्गणे गच्छविषये आज्ञा वा योगेषु प्रवर्तनलक्षणां धारणां वा धेयेषु प्रवर्तनलक्षणां नो -नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद्गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति, कालिकाचार्यवदित्येकम् । तथा गणविषये रत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकं-विनयं नो-नैव सम्यक् प्रयोक्ता भवति, आचार्यसंपदां साभिमानत्वात् । यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथाऽसौ यानि श्रुतपर्यवजातानि
|६||