________________
विचार || नवरं 'गिण्हमाणेत्ति' बाह्वादावङ्गे गृह्णन् अवलंबमानः-पतन्तीं बाह्यादौ गृहीत्वा धारयन्, अथवा ' सव्वंगियं तु गहणं, करेण अवलंबणं रत्नाकर:
तु देसंमित्ति ।' नातिक्रामति स्वाचारमाज्ञां वा गीतार्थः स्थविरो वा निर्ग्रन्थिकाभावेन यथाकथञ्चित्पशुजातीयो दृप्तो गवादिः, पक्षिजातीयो गृध्रादिः,' ओहाएज्जत्ति' उपहन्यात्तत्र उपहनने गृह्णन्नातिक्रामति, कारणिकत्वान्निष्कारणत्वे तु दोषाः, यदाह-" मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो, पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥ १॥ इत्येकम् । तथा दुःखेन गम्यतेऽसौ दुर्गः । स च त्रिधा
वृक्षदुर्गः श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गः । तत्र वामार्गे, उक्तं च-"तिविहं च होइ दुग्गं, रुक्खे सावयमणुस्सदुग्गं च" त्ति । तथा विषमे ||४|| वा-गरौपाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्तीं वा भुवि । अथवा " भूमीए असंपत्तं पत्तं वा हत्थजाणुणादीहिं ।
पक्खलणं नायव्वं पवडणभूमीय गत्तेहिं । १।" गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्कः पनको वा सजलो यत्र निमज्जते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूवे कर्दम एव वा अपकसन्तीं पङ्कपनकयोः परिहसन्ती अपोह्यमानां सेके पनके वा नीयमानां गृह्णन्नातिक्रामतीति । गाथा चेह-" पंको खलु चिक्खिल्लो, आगंतुपतणुओ दवो पणओ। सोच्चिय सजलो सेओ, सिइज्जइ जत्य दुविहेवि ॥ १॥ त्ति । पंकपणएसु नियमा, उवकसणं वुझणं सिया सेए । निग्गमि निमज्जणा य, सजले सेए सिया दोवि ॥ २॥" त्ति इति तृतीयम् । तथा-' नावमारुहमाणेत्ति' आरोहयन् 'ओरुहमाणेत्ति' अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथाक्षिप्तं-नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा । उक्तं च-" रागेण वा भयेण वा, अहवा अवमाणिया महंतेहिं । एतेहिं खित्तचित्तत्ति” तथा दृप्तं-सन्मानार्पवच्चित्तं यस्याः सा दृप्तचित्ता तां वा । उक्तं च-" इति एस असंमाणा, खित्तो संमाणओ भवे दित्तो । अग्गीव इंधणेणं, दिप्पइ चित्तं इमेहिं तु ॥१॥ लाभमएण व मत्तो, अहवा जेऊण दुज्जयं सत्तुंति" । यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा । अत्रोक्तम्-“पुव्वभववेरिएणं, अहवा रागेण रागिया संती । एतेहिं जक्खइट्ठत्ति" उन्मादं उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा । अत्राप्युक्तम्-“ उम्माओ खलुदुविहो, जक्खाएसो य मोहणिज्जो या जक्खाएसो वुत्तो, मोहेण इमं च वोच्छामि ॥ १॥ रूवंगं दट्ठणं, उम्माओ अहव पित्तमुच्छाएत्ति" उपसर्ग-उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा । इहाप्युक्तम्-" तिविहे खलु उवस्सग्गे, दिव्वे ol माणुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, माणुस्से आभिओगे य ॥ १॥ विज्जाए मंतेण य, चुण्णेण व जोइया अणप्पवसत्ति"
॥४५॥