________________
विचार
प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकं प्राद्वेषिकाद्युपसर्गरूपमिति । तथा यक्षाधिष्ठितो- देवताधिष्ठितोऽयं, रत्नाकरः। 88 तेनाक्रोशयतीत्यादि द्वितीयम् । तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्त्ती ' ममं च णंति' मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते - अनुभूयते यत्तत्तद्भववेदनीयं कर्मोदीर्णं भवति अस्ति तेनैष मामाक्रोशयतीत्यादि तृतीयम् । तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम पुनरसहमानस्य किं मन्त्रेत्ति ' मन्ये इति निपातो वितर्कार्थः ' कज्जइत्ति ' संपद्यते इह विनिश्चयमाह-' एगंतसोत्ति' एकान्तेन सर्वथा पापं कर्मा-असातादि क्रियते संपद्यते इति चतुर्थः । तथा अयं तावत्पापं बध्नाति मम चेदं सहतो निर्जरा क्रियते इति पञ्चमम् । ' इच्चेतेहीत्यादि' निगमनमिति, शेषं सुगममिति । छद्मस्थविपर्ययः केवलीति तत्सूत्रम् । तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः । दृप्तचित्तः पुत्रजन्मादिना दर्पवच्चित्तनुन्मत्त एवेति । मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्त्युत्तमानुसारित्वात्प्राय इतरेषाम् । यदाह-" जो उत्तमेहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते, तयणुचरा केण सीएज्ज ॥ १ ॥ " त्ति ' इच्चेतेहि इत्यादि ' अत्रापि निगमनं, शेषं सुगमम् ॥ इति स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रतौ २५५।२५६ पत्रे ॥ १३ ॥
श्रीजिनशासने कुत्रापि नैकान्ततो हठो विधेयो, यतो निषिद्धमाद्रियते कारणात् क्वचिदादृतमपि निषिध्यते । नैकान्ततः किञ्चिन्निषिद्धमाहतं वा, सूत्राज्ञैव सर्वत्र प्रमाणं, न स्वमतिकल्पना । एवं प्रतिमापूजादिष्वपि ज्ञेयम् । तथैव च साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शो निर्ग्रन्थ्यवलम्बनादौ विहितत्वेनोक्त: समीचीनतामञ्चति । तत्सूत्रं चेदम्
" पंचहिं ठाणेहिं समणे निग्गंथे निग्गंधिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ, तंजहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ १। निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणि वा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कम २ । निग्गंथे निग्गंथि सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उवक्कसमाणि वा उवुज्झमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कम ३ । निग्गंथे निग्गंथिं नावं आरुहमाणे ओरुहमाणे वा णाइक्कमइ ४। खित्तइत्तं दित्तइत्तं जक्खाइङ्कं उम्मायपत्तं वा उवसग्गपत्तं वा साहिगरणं सपायच्छित्तं ॥४४॥ भत्तपाणपडियाक्खित्तं अट्ठजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ५ । ” वृत्तिर्यथा-' पंचहिं इत्यादि' सुगमम्
118811
स्थानाङ्ग 28 विचाराः