________________
विचाररत्नाकरः
||४७||
यान् श्रुतपर्यायप्रकारानुद्देशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति । 'गणेत्ति' इह संबध्यते, तेन गणे-गणविषये गणमित्यर्थः । तस्याविनीतत्वात्स्वस्य वा सुखलंपटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः 'सगणियाएत्ति' स्वगणसम्बन्धियां ' परगणियाएत्ति ' परगणसत्कायां वा निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्त्तितया सकलकल्याणाश्रयसंयमसौधमध्यावहिर्लेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः एवं गणादपक्रामतीति । न चेदमधिकगुणत्वेनास्यासंभाव्यम् यतः पठ्यते-“कम्माइं नूणं घणचिक्कणाइं गुरुयाइं वज्जसाराई । नाणड्ढियंपि पुरिसं, पंथाओ उप्पह नेति ॥ १॥” इति चतुर्थम् तथा मित्र-ज्ञातिर्गणो वा सुहृत्स्वजनवर्गो वा से-तस्याचार्यादः कृतोऽपि कारणाद्गणादपक्रमेत्, अतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थं गणादपक्रामणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकार उपग्रहो वस्त्रादिभिरूपष्टंभ इति पञ्चमम् । इति स्थानाङ्गपंचमस्थानकद्वितीयोद्देशके २४२ प्रतौ १५२ पत्रे ॥ १५ ॥
केचिच्च वयं सिद्धान्तोक्तमेव स्वीकुर्म इत्यादि वृथा प्रलपन्तः परंपराचरणाद्यपलपन्ति, तच्चाज्ञानविलसितम् । यतः शास्त्रे मुनीनां प्रायश्चित्तदानाधिकारे आगमश्रुताज्ञाधारणाजीतानां पञ्चानामपि व्यवहारत्वेनोक्तत्वात् । तच्चेदम्
" पंचविहे ववहारे पण्णत्ते, तंजहा-आगमे सुए आणा धारणा जीए । जहा से तत्थ आगमे सिया, तत्थ आगमेणं ववहारं पढ़वेज्जा शनो से तत्थ आगमे सिया, जहा से तत्थ सुते सिया, सुतेणं ववहारं पठ्ठवेज्जा २१ नो से तत्थ सुते सिया, एवं जाव जहा से तत्थ जीए सिया, जीएणं ववहारं पठ्ठवेज्जा । इच्चेतेहिं पंचहिं ववहारं पठ्ठवेज्जा । तंजहा-आगमेणं जाव जीएणं, जहा जहा से तत्य आगमे जाव जीए तहा तहा ववहारं पट्ठवेज्जा इति" वृत्तिर्यथा- पंचविहे इत्यादि' । व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षप्रवृतिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद् ज्ञानविशेषोऽपि व्यवहारः । तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ शेषं श्रुतमाचारप्रकल्पादि श्रुतम् २ नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति । यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिःकृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्ते सा धारणा । वैयावृत्त्यकरोदेर्वा गच्छोपग्रहकारिणोऽशेष
||४७||