________________
लो. 1981
विचार- रत्नाकरः
स्थानाङ्ग विचाराः
||४00
तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति । आगच्छति मनुष्यक्षेत्रादाजिगमिधू देवं प्रतीति । इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम् । न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगतं गन्धं जानातीति अथवा अत एव वचनात् । यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव संभाव्यते कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुः, यदि परं प्रतिशब्दद्वारेणान्यथा वेति । नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं सुगमम् । इति स्थानाङ्गचतुर्थस्थानकतृतीयोद्देशके ४४० प्रतौ २० पत्रे ॥ १० ॥
न केवलमुरगा एवाशीविषाः, किंतु मनुष्यादयोऽपि तथोक्ताः सन्ति, इति जिज्ञासया उरगादिविषविषयजिज्ञासया च लिख्यते
“चत्तारि जाइ आसीविसा पण्णत्ता । तंजहा-विच्छुजाइ आसीविसे, मंडुक्कजाइ आसीविसे, उरगजाइ आसीविसे, मणुस्सजाइ आसीविसे । विच्छुजाइ आसिविसस्सणं भंते ! केवइए विसए पण्णत्ते ? गोयमा ! पभू णं विच्छुजाइआसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणी करित्तए विसए से विसट्टयाए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा । मंडुक्कजाइआसीविसस्स पुच्छा, पभू णं मंडुक्कजाइआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणी करित्तए जाव करिस्संति वा । उरगजाइआसीविसस्स पुच्छा ? पभू णं उरगजाइआसीविसे जंबुद्दीवप्पमाणमेत्तं बोंदि विसेणं सेसं तं चेव जाव करिस्संति वा । मणुस्सजाइआसीविसस्स पुच्छा ?, पभू णं मणुस्सजाइआसीविसे समयखेत्तप्पमाणमेत्तं बोंदि विसेणं विसपरिणयं विसट्टमाणि करित्तए विसए से विसट्टयाए नो चेव णं जाव करिस्संतीति । वृत्तिर्यथा-सुगमं चेदं नवरम् ' आसीविसत्ति' आश्यो-दंष्ट्राः तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च । तत्र कर्मतस्तिर्यङ्मनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चाऽऽसहस्राराच्छापादिना परव्यापादनादिति । उक्तं च- “ आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया । ते कम्मजाइभेएण णेगहा चउविहविगप्प ॥ १॥" त्ति जातित आशीविषा जात्याशीविषा वृश्चिकादयः । 'केवइयत्ति' कियान् विषयो-गोचरो विष स्येति गम्यते । प्रभुः समर्थः । अर्द्धभरतस्य यत्प्रमाणं सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्राप्रमाणं यस्या साऽर्द्धभरतप्रमाणमात्रा ताम् । ' बोंदि' शरीरं विशेष-स्वकीयाशीविषेण करणभूतेन विषपरिणता-विषरूपापन्नां, विषपरिगतामिति क्वचित्पाठः, तत्र तयाप्तामित्यर्थः । 'विसट्टमाणि' विकसन्ती-विदलन्तीं कर्तुविधातुं विषयः स गोचरोऽसौ । अथवा 'से' तस्य वृश्चिकस्य विषमेवार्थो विषार्थः तद्भावस्तत्ता तस्या
||४0॥