________________
विचार- 188| विषार्थताया विषत्वस्य तस्यां वा 'नो चेवत्ति' नैवेत्यर्थः । संपत्त्या एवंविधबोंदिसंप्राप्तिद्वारेण अकार्षवृश्चिका इति गम्यते । इह
ॐ चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति । त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः । समयक्षेत्रं-मनुष्यक्षेत्रम् । इति स्थानाङ्गचतुर्थस्थानकचतुथद्दिशके ४४० प्रतौ २२५ पत्रे ।। ११ ॥
साधूनामाचार्योपाध्यायैः सह कलहस्थानानि लिख्यन्ते"आयरियोवज्झायस्स णं गणंसि पंच वुग्गहठाणा पण्णत्ता, तंजहा-आयरियोवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म 118911 पउंजित्ता भवइ । आयरियोवज्झाएणं गणंसि अहारायणियाए किइकम्मं वेणइयं नो सम्मं पउंजित्ता भवइ २। आयरियोवज्झाए णं
गणंसि जे सुअपज्जवजाते धारेइ, ते काले २ नो सम्म अणुप्पवाइत्ता भवइ ३। आयरियोवज्झाए णं गणंसि गिलाणसेहवेयावच्चं नो सम्म अब्भुट्ठित्ता भवइ ४। आयरियोवज्झाए णं गणंसि अणापुच्छियचारिया भवइ इति ५। " वृत्तिर्यथा-आचार्योपाध्यायस्येति समाहारद्वन्द्वः, कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य चाचार्योपाध्यायस्य वा 'गणंसित्ति' गणे विग्रहस्थानानि-कलहाश्रयाः । आचार्योपाध्यायो द्वयं वा गणे-गणविषये आज्ञा हे साधो ! भवतेदं विधेयमित्येवंरूपामादिष्टाम् । धारणां-न विधेयमित्येवंरूपां नोनैव सम्यगौचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते, असम्यनियोगाद् दुर्नियंतृत्वाच्च । अथवा अनौचित्येन नियोक्तारमाचार्यादिकमेव कलहायन्ते, इत्येवं सर्वत्रेति । अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यग्प्रयोक्तेति कलहभागिति प्रथमम् । तथा स एव अहारायणियाए इति' रत्नानि द्विधा, द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि । तत्र रत्नैर्ज्ञानादिभिर्व्यवहरतीति रालिक:- बृहत्पर्यायो यो रालिको यथारालिकं तद्भावस्तत्ता तया यथारालिकतया-यथाज्येष्ठं कृतिकर्म-वन्दनकं विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् धारयति-धारणाविषयीकरोति तानि काले काले-यथावसरं न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम् । कालेऽनुप्रवाचयितेत्युक्तम्, तत्र गाथा:" कालक्कमेण पत्तं, संवच्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो, वाएज्जा सो य कालोऽयं ॥ १ ॥ तिवरिसपरियागस्स उ,
॥४१॥