________________
विचार
केचिदेकान्ततो रागिणोऽपरे च छिद्रान्वेषिण इत्यादि श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयो, नापि छिद्रान्वेषिष्व श्रावकधी : स्थानाङ्ग रत्नाकरः कर्त्तव्या, चातुर्विध्यस्यागमे उक्तत्वात् । स चायम्
विचाराः
चत्तारि समणोवासगा पण्णत्ता, तंजहा - अम्मापिईसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । चत्तारि समणोवासगा पण्णत्ता । तंजहा-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे इति ” वृत्तिर्यथा - ' अम्मापिइसमाणे इति ' मातापितृसमान:उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् । भ्रातृसमानः- अल्पतरप्रेमत्वात्तत्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाच्चेति । मित्रसमानः-सोपचारवचनादिना विना प्रीतिक्षते तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समान:- साधारणः पतिरस्याः सा सपत्नी यथा सा सपल्या ईर्ष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयते इति । ' अद्दागत्ति ' आदर्शसमानो, यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिद्यते संनिहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात्पताकेव स पताकासमानः । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चायते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीय: स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपितु प्रज्ञापकं दुर्वचनकष्टकैर्विध्यति स खरकण्टकसमानः । खरा- निरन्तरा निष्ठुरा वा कण्टका यस्मिंस्तत्खरकण्टकं बब्बूलादिडालम्' खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चति अपितु दद्विमोचकपुरुषादिकं हस्तादिषु कण्टकैर्विध्यति । अथवा खरण्टयति लेपवन्तं करोति यत्तत्खरण्टमशुच्यादि तत्समानः, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति । कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति । इति श्रीस्थानाङ्गचतुर्थे स्थानके तृतीयोद्देशके ६४०
113611
66
प्रतौ २०५ पत्रे ॥ ९ ॥
ननु निरर्थकं धर्माचरणं, फलवन्ध्यत्वात्, यद्येतस्याशेषस्य यथोक्तफलाव्यभिचारः स्यात्तदा भूयांसोऽप्यनशनादिसदनुष्ठानेन विपन्नाः कथं स्वेन्द्रत्वादिविभवं न दर्शयन्ति ?, मैवं, तदनागमने हेतुचतुष्टयस्य शास्त्रे प्रतिपादितत्वान् । पूर्वकाले तत्कारणसद्भावे कथमागतास्ते श्रूयते इति चेत्तत्र पुण्यप्राबल्यं कारणमिति, सर्वं सुस्थं, देवानागमनहेतुप्रतिपादकं शास्त्रं चेदम् -
ပြည်မြို့
ပြာ တို့သာ လို့
||३८||