________________
विचार- नो सम्यगाराधिता भवन्ति, अविनयकरणाज्जानपदैरिति गम्यते । ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्नं उदकप्रधानं रत्नाकरः पौद्गल-पुद्गलसमूहो मेघ इत्यर्थः । उदकपौद्गल तथा परिणतं उदकदायकावस्थाप्राप्तम् अत एव विद्युदादिकरणाद्वर्षितुकाम सत् अन्य देशं
मगधादिकं संहरन्ति-नयन्तीति द्वितीयम् । अभ्राणि-मेघास्तैर्वार्दलकं दुर्दिनं अभ्रवादलकं वाउआएत्ति' वायुकायः-प्रचण्डवातो विधुनातिध्वंसयतीति तृतीयम् । 'इच्चे इत्यादि' निगमनम् । इति स्थानाङ्गतृतीयस्थानकतृतीयोद्देशके ४४० प्रतौ १२६ पत्रे ॥ ७॥
इह केचिदज्ञानिनो भूयोभूयः सयुक्तिभिः सिद्धान्तोक्तिभिः सुविहितगीतार्थैर्बोधिता अपि योगापलापाग्रहं न त्यजन्ति, ततस्तान् ||३७ प्रति 'अश्रान्ताः परोपकारे सन्त' इत्यङ्गीकृत्य पुनरपि योगविधिसत्तासूचकं सूत्रं लिख्यते
“तओन कप्पंति वाइत्तए ( तओ अवायणिज्जा पणत्ता) तंजहा-अविणीए विगइपडिबद्धे अविउसियपाहुडे । इति" वृत्तिर्यथा'तओ इत्यादि' सुगमं नवरं न वाचनीयाः-सूत्रं न पाठनीयाः अत एवार्थमप्यश्रावणीयाः सूत्रादर्थस्य गुरुत्वात्, तत्राविनीत:-सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषाः । यत उक्तम्- " इहरहविनाणथज्झवत्तणुइ, अविणीओ लंभिओ किमु सुएणं ?। माणट्ठो नासिहिई खएव खारोवसेगो उ ॥१॥ गोजूहस्स पडागा, सयं पलायस्स वड्ढई वेगं । दोसोदए य समणं, न होइ न नियाणतुल्लं व ? ॥२॥" निदानतुल्यमेव भवतीत्यर्थः । “विणयाहीया विज्जा, देइ फलं इह परे य लोगंमि । न फलइ अविणयगहिआ, सस्साणिव तोअहीणाई | ॥१॥" तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः । इहापि दोष एव । यदाह-" अतवो न होइ जोगो, न य फलए इच्छियफलं विज्जा । अवि फलति विउलमगुणं, साहणहीणा जहा विज्जा ॥१॥" त्ति अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकः परमक्रोधो यस्य सोऽव्यवसितप्राभृतः । उक्तं च-"अप्पेवि पारमाणिं, अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो, अविउसियपाहुडो स खलु ॥१॥" त्ति पारमाणि-परमक्रोधसमुद्घातं व्रजतीति भावः । एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति । आह च-"
दुविहो उ परिच्चाओ इह चोअणकलह देवयाछलणं । परलोगंमि अ अफलं, खित्तंपिव ऊसरे बीयं ॥ १॥" ति इति lael स्थानाङ्गतृतीयस्थानकचतुथदिशके ॥ ८ ॥
||३७।।