________________
स्थानाङ्ग विचाराः
विचार- 88 “तओ थेरभूमीओ पण्णत्ता, तंजहा-जाइयेरे सुयथेरे परियायथेरे, सठिवासजाए समणे निग्गंथे जाइयेरे ठाणसमवायधरे समणे
निग्गंथे सुअथेरे वीसवासपरियाए णं समणे निग्गंथे परियायथेरे । इति" वृत्तिर्यथा-'तओ थेरेत्यादि' व्यक्तम् । नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति । जातिर्जन्म, श्रुतमागमः, पर्यायः प्रव्रज्या, तैः स्थविरा-वृद्धा येते तथोक्ता इति इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति । एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि ।
यत उक्तं व्यवहारे-“आहारे उवही सेज्जा, संथारे खेत्तसंकम्मे । किइच्छंदाणुवत्तीहि, अणुकंपइ थेरगं ॥ १॥ उठाणासणदाणाई, ||३६|| जोगाहारप्पसंसणा । नीयसेज्जाइणिद्देसवत्तिए पूयए सुअं॥२॥ उठाणं वंदणं चेव, गहणं दंडगस्स य । अगुरुणोवि य णिद्देसे, तईयाए
पवत्तए ॥३॥” इति । इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११५ पत्रे ॥६॥
अल्पवृष्टिकारणानि लिख्यन्ते
“तिहिं ठाणेहिं अप्पवुट्ठिकाए सिया । तंजहा-तंसिं च णं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए वक्कमति विउक्कमति चयंति उववज्जति श देवा णागा जक्खा भूया नो सम्मं आराहिया भवंति । तत्थ समुट्ठियं उदगपोग्गलं परिणयं वासिउकामं अन्नं देसं साहरंति २। अब्भवद्दलं च णं समुट्ठियं परिणयं वासिउकामं वाउकाए विधुणाइ ३ । इच्चेहि तिहि ठाणेहि अप्पवुट्ठिकाए सिया । इति "वृत्तिर्यथा-' तिहिं' इत्यादिभिरष्टाभिः सूत्रैराह । सुगमानि चैतानि किं तु 'अप्पवुट्ठिकाएत्ति' अल्प:स्तोकोऽविद्यमानो वा वर्षणं-वृष्टिरध:पतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, | तस्याः कायो-राशिवृष्टिकायः, अल्पश्वासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद्भवेत्तस्मिंस्तत्र मगधादौ । चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः ।
णमित्यलङ्कारे देशे-जनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनय उदकयोनयः-परिणामकारणभूता उदकयोनयः त एवोदकयोनिका उदकजननस्वभावा व्युत्क्रामन्ति-उत्पद्यन्ते, व्यपक्रान्ति-च्यवन्ते । एतदेव यथायोगं पर्यायत आचष्टे-च्यवन्ते उत्पद्यन्ते
क्षेत्रस्वभावादित्येकम् । तथा देवा-वैमानिका ज्योतिष्काः, नागा-नागकुमारा भवनपत्युपलक्षणमेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम् । Model अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद्वा सूत्रगतेरिति
11३६||