________________
विचार- 1888| नित्यत्वं घटते ? । एतच्छङ्कातङ्कापनोदाय लिख्यते
रत्नाकर 88
,”
" कामं दुवालसंगं, जिणवयणं सासतं महाभागं । सव्वज्झयणाणि तथा सव्वक्खरसन्निवाया य ॥ ५ ॥ तहवि य कोई अत्थो, उप्पज्जति तम्मि तस्मि समयंमि । पुव्वं भणिओऽणुमओ य, होइ इसिभासितेसु जहा ॥ ६ ॥ ननु शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकमागमे आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशंक्याह ॥ “ काममित्यादि काममित्येतदभ्युपगमे इष्टमेवैतदस्माकम् । तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं महानुभावम्, आमर्षौषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदम् सर्वाण्यप्यध्ययनान्येवंभूतानि । तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु मतानुज्ञानाम निग्रहस्थानं भव इत्याशङ्कयाह-‘तहवियइत्यादि । यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतम्, तथाऽपि कोऽप्यर्थस्तस्मिन् समये तथा क्षेत्रे कुतश्चिदार्द्रकादेः ॐ सकाशादाविर्भावमास्कन्दति, स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषु उत्तराध्ययनेषु यथा । इति सूत्रकृताङ्गद्वितीयश्रुत-स्कन्धषष्ठाध्ययननिर्युक्तौ २७१ प्रतौ २४३ पत्रे ।। २० ।।
112611
%%%%%%%%8888888
केचिच्चात्रासदभिमानकवलितविशदाशयाः पण्डितंमन्याः परेषां भोजनाद्यनुकम्पादानमपि निषेधयन्ति, वदन्ति चासद्वचनानि, मण्डूकपिण्डेन भुजगभोजनतुल्यं तद्दानमित्यादीति तच्चाज्ञानम्, यतोऽनुकम्पादानस्य श्रीजिनशासने कुत्राप्यनिषिद्धत्वात् । प्रत्युत श्रीराजप्रश्नीये केशी गणधर : श्रीप्रदेशिनं प्रति पूर्वं रमणीयो भूत्वा पश्चादरमणीयो मा भूया इत्यादिवाक्यैरनुकम्पादानस्य विहितत्वेन प्रतीयमानत्वात् । नच वाच्यम् । — सुहिएसु अ दुहिएसु अ, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि' । इत्यत्र तद्दानस् प्रतिक्रान्तत्वादिति । तत्र निषेधतात्पर्यस्य रागद्वेषयोरेव विश्रान्तत्वात् । तथा चात्रापि तद्धर्मप्रशंसा पूर्वं सद्धर्मनिन्दापूर्वं च यदसंयतिभोजनं तदेव निषिद्धम् । विशेषणस्य विशेषार्थोद्दीपकत्वात् । सा गाथा चेयम्
အာာာာာာာာာာာာာ
“ दयावरं धम्म दुगुंछमाणो, वहावहं धम्म पसंसमाणो । इक्कंपि जो भोअयती असीलं, णिवो णिसं जाति कुतोऽसुरेहिं ? | ४५ ।। ” दया-प्राणिषु कृपा तया वरः- प्रधानो यो धर्मः तमेवंभूतं धर्मं जुगुप्समानो- निन्दन् । तथा वधं प्राण्युपमर्दमावहतीति वधावहः तं ॥२७॥ तथाभूतं धर्मं प्रशंसन्-स्तुवन्नेकमप्यशीलं निर्व्रतं षट्जीवकायोपमर्देन यो भोजयेत्, किं पुनः प्रभूतान् । नृपो राजन्यो वा यः कश्चिन्मूढमतिधार्मिकमात्मानं